________________
५३४
हीरसौभाग्यम् [सर्गः ८ श्लो० ५६-५८ भविष्णुनीरन्ध्रभवनशीलः तथा रोचिष्णुः शोभनशीलो यो रोचिश्चयः कान्तिनिकरः स पच निर्झरिणी नदी सस्यां प्रादुर्भवन्ती प्रकटीसजायमाना विलसति परस्परमाग्लिष्यतीत्येवंशीला कल्लोलमाला तरङ्गमण्डलीव । अथवा प्रकटीभवन्ती लोचनगोचरत्वमागच्छन्ती तिस्रश्च ता वल्यश्च त्रिवल्यस्त्रिवल्य एव विलसनशीला विराजमानस्वभावा लहरी राजीव ॥
લેકાર્થ શાસનદેવીના ઉદર ઉપર ત્રિવલી શબે છે, અત્યંત નીરંદ્ર અને દેદીપ્યમાન દેવીના શરીરની કાન્તિના સમૂહરૂપ નદીની ત્રિવલીના વિલાસરૂપે પ્રગટ થતી જાણે પરસ્પર તરંગની લહરી ન હોય ! છે ૫૬ છે
चण्डी सपत्नी प्रबला ममास्ते, ज्यायानजो वेदजडः पतिर्मे । भ; वियोगो हरिणा ममापि, दुःखं जहीद तिमृणामपीति ॥५७ ॥ वक्तुं जगत्कल्पितकल्पवल्लि, जबोर्विधेश्चांशुमतः मुताभिः ।
मध्ये समेत्य त्रिवलीच्छलेन, प्रसादपात्रीक्रियते किमेषा ।। ५८ ॥ सुताशब्दः त्रिषु स्थानेषु प्रत्येक योजनीयः । जह्वोर्नारायणस्य सुता गङ्गा । 'तीर्थ तोयव्यतिकरभवे जहुकन्यासरय्वोः' इति रघौ । पुनर्विधेब्रह्मणः सुता सरस्वती। . 'ब्रह्मपुत्री सरस्वती' इति हैम्याम् । तथा 'दशमनामब्रह्मणः सुता' इति भारतीस्तोत्रे । च पुनरंशुमतः सूर्यस्य । स्यत्वेंशुपनिरंशुमान्' इति हैम्याम् । सुता पुत्री यमुना । 'कृतान्तजनकः प्रद्योतनस्तापनः, इति हेमचन्द्रोक्तिः। तथा 'अलभत शमनस्वसुः शिशुत्व दिवसकराङ्कतले चला लुठन्ती' इति नैषधे । एतावता गङ्गासरस्वतीयमुनानामनदीभिः मध्ये उदरे तिसृणां वलीनां त्वक्संकोचलक्षणानां छलेन कपटेन समेत्य देवीपार्श्व आगत्य । उत्प्रेक्ष्यते इति वक्तुं कथयितुम् । किम् । एषा देवीप्रसत्तेः प्रसादस्य पात्र स्थान क्रियते । याचना सफला तु प्रसादपात्रीकृतादेव प्रभोः स्यादतो देवी प्रसा. द्यत इत्यर्थः । इति किम् । मम गङ्गायाः प्रबला सिंहयानत्वेन बलवती चण्डी अत्यन्त. कोपना पार्वती सपत्नी वर्तते । द्वयोरपीश्वरपत्नीत्वेन सापत्न्यम् । तथा मम सरस्वत्याः पतिण्यानतिवृद्धः, तथाजः पशुब्रह्मा, तथा वेदजडोऽशान । 'स्थविरशतानन्दपितामहौ कस्तथा परमेष्टाजोऽष्टश्रवणः स्वयंभूः' इति हैम्याम् । किमपि न वेत्ति वैदिकः । यतः 'न बेदतां वेदजडः सवत्साम्' इति नैषधे सरस्वत्या ब्राह्मणस्त्रीत्वम् । तथा एकादश नाम ब्रह्माणी । इति हेतोर्मम पतिर्भास्ते । तथा भर्ना प्रियेण हरिणा कृष्णेन सार्ध मम यमुनाया वियोगो विरहः । 'अम्मन्तरेण विहडइ उत्तममहिलाण जे किय पिम्मम् । कालिन्दा कन्हविरहे अजवि काल जल वहइ ॥ इति वृत्तरत्नाकरवृत्तिबोधकवचनात् । विद्यते इदमेतत्पूर्वोक्कलक्षणम् । तिसृणामप्यस्माकमुषितानां