SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ सर्ग ८ श्लो० ५८-६० ] सौभाग्यम् ५३५ पूरणे प्रदाने कल्पवल्लि सुरलते जहि निवारय मूलाच्छिन्धि । इति विज्ञपयितुमिव । दुःखमसातम् ॥ શ્લાકા જતુપુત્રી ગંગા કહે છે કે ‘મારે પ્રચંડ ક્રધાતુર એવી પાર્વતી શાકય છે,’ બ્રહ્મપુત્રી સરસ્વતી કહે છે કે મારા પતિ બ્રહ્મા વૃદ્ધ અને જડ છે,' અને પુત્રી યમુના કહે છે કે ‘મારા પતિ કૃષ્ણના મારે સદાય વિયેાગ છે,' આ પ્રમાણે પેાતાતાના દુ:ખ કહેવા માટે જગતની કલ્પવેલી સમાન, પ્રસન્નતાના પાત્રરૂપ શાસનદેવીના ઉદઃ ૩પર ત્રિવલીના બહાને જાણે ગગા, સરસ્વતી અને યમુના રહેલી ન હોય ! ! ૫૭ ! ૫૮ ૫ अध्यारुरुक्षोर्हृ दधित्यकायां, वपुगृहस्य स्मरमेदिनीन्दोः । सौवर्णसोपानपरम्परेव, मध्ये विरेजे त्रिवली त्रिदश्याः ॥ ५९ ॥ त्रिदश्याः शासनदेवताया मध्ये उदरे त्रिवली विरेजे । हृत् हृदयमेव अधित्यकायामुपरितनभूमिकां चन्द्रशालिकामध्यारुरुक्षोरध्यारो दुमिच्छोः । यद्वपुः यस्या देव्या वपुरेव ग्रह मन्दिर यस्य तादृशः स्मरः कामः स एव मेदिन्या भूमेरिन्दुराल्हादकत्वाचन्द्रः । 'कामयेम हि महीमिहिकांशो' इति नैषधे । सौवर्णा सुवर्णसंबन्धिनी काञ्चनर चिता सोपानानामारोहणानां परम्परा श्रेणीव । શ્લેાકા શાસનદેવીની ત્રિવલી શેખે છે. તે જાણે દેવીના શરીરરૂપ મહેલની હ્રદયરૂપી અગાશી ઉપર ચઢવાની ઈચ્છાવાળા કામદેવરૂપી રાજાને ચઢવા માટે સુવર્ણમય સેાપાનની પંક્તિ ન હોય ! ।। પા जगत्त्रयीस्त्रैणजयार्जितायाः, वैत्येन कीर्तेरनया विजित्य । बन्दीकृता निर्झरिणी सुराणा - मिव त्रिवेणी त्रिवली चकास्ति ॥ ६० ॥ देव्या इति संबन्धात् । त्रिवली मांससंकोचलक्षणा त्रित्वस' ख्याकलिता वली चकास्ति दीप्यते । उत्प्रेक्ष्यते - अनया शासनदेवताया कीर्तेः स्वकीययशसः श्वत्येन शुचिमश्रिया विजित्य पराभूय बन्दीकृता निगृह्य रक्षिता सुराणां निर्झरिणी नदीव गङ्गेव किं निर्झरिणी त्रिवेणी त्रिस्रो वेण्यः प्रवाहा यस्याः । 'प्रवाहः पुनरोघः स्याद्वेणीधारा रयश्च सः' इति हैम्याम् । तथा गङ्गायास्त्रिस्रोतस्त्वात् । 'त्रिस्रोता जाह्नवी मन्दाकिनी' इति हैम्याम् | कीर्तेः किंभूतायाः । जगतां स्वर्गपातालभूमण्डलानां त्रयी त्रिकं तस्याः स्त्रणस्य स्त्रीसमूहस्य सुरासुरनरनागाङ्गनागणस्य जयेन निजवैभवभरेण पराभवेनार्जितायाः स्वीकृतायाः ॥ इति त्रिवली ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy