________________
सर्ग ८ श्लो० ५४-५६] हीरसौभाग्यम् भूभूमिर्येन । 'भुवं यदेकाधिकनिष्ठया स्पृशन्दधावधर्मोऽपि कृशस्तपस्विताम्' इति नैषधे । 'एतदेव तपस्विनां महत्तपः । यद्वामचरणकनिष्ठाइगुल्यग्रमात्रेण भुवं स्पृशंस्तपस्यति' इति तद्वत्तिः । यादृक् शरीरावस्थितिक्षेत्र तागेव स्थान विलोक्यते तत एव क्रशिष्ठेति ॥
શ્લોકાર્થ પિતાની જેમ ઈશ્વરને ભસ્મીભૂત કરવાની ઈચ્છાથી ઘેર તપશ્ચર્યા કરતા કામદેવની ડાબા પગની કનિષ્ઠા અંગુલિથી પૃથ્વીને સ્પર્શ કરતો અને જેની આગળ ના ભીરૂપ હેમકુંડ બનાવ્યો છે, એવી દેવીને અતિકૃશ મધ્યભાગ તે જાણે કામદેવના તપની વેદિકા ન હોય ! છે ૫૪ છે
सर्वाङ्गसृष्टिं सृजतस्तदीयां, धातुर्विलग्नस्य विधानकाले । प्राप्तः क्षयं सारदलम्य कोशो-ऽल्पीयस्ततोऽभूदिव मध्यमस्याः ॥ ५५ ॥
तस्या इयं तदीया सर्वेषां समग्राणामझगानामवयवानां सृष्टि रचनां निर्माण सृजतः कुर्वतो धातुर्जगत्कर्तुविलग्नस्यार्थाद्देवीमध्यस्य विधानकाले प्रणयनसमये सारद. लस्य प्रकृष्टनिर्माणयोग्यपरमाणुपिण्डस्य कोशो, भाण्डागारः क्षयं क्षीणतां स्तोकभाव प्राप्तः । उत्प्रेक्ष्यते-ततस्तस्मात्कारणादस्यास्त्रिदश्या मध्यमल्पीयः अतिशयेनाल्पं कृशतममभूदिव जातम् ॥ इति मध्यम् ॥
કલેકાર્થ જગતનાં શ્રેષ્ઠ તત્તવોને ગ્રહણ કરીને શાસનદેવીનાં સર્વ અંગોનું સર્જન કરતા બ્રહ્માએ, દેવીને મધ્યભાગ બનાવતાં સાર-તો ખૂટી જવાથી, દેવીને મધ્યભાગ અલ્પ (પતલ) બન્યો ! અર્થાત સારતો ખૂટી જવાથી જાણે કટપ્રદેશ પતળો બનાવ્યો ન હોય ! પપ
यदङ्गयष्टीबहलीभविष्णुरोचिष्णु-रोचिश्चयनिर्झरिण्याः । प्रादुर्भवन्ती त्रिवलीविलासि-कल्लोलमालेव विभाति मध्ये ॥ ५६ ।।
: मध्ये अर्थाद्देव्या उदरे विलग्ना त्रिवली त्वक्सकोचलक्षणा त्रित्वसंख्यायुक्ता वली त्रिवली । यथा जिनप्रभसूरिकृतऋषभनम्रस्तवे-'त्रिजगतीं पुनती कविसेविता' इति । विभाति शोभते । 'मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला' इति । कुमारसंभवे । 'मध्येनोदरेण' इति तवृत्तिः । तथा 'प्रयीमयीभूतबलीविभागा' पुनः 'उदर परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु । धृततच्चतुरङ्गुलीव यद्वलिभि ति सहेमकाञ्चिभिः ॥' इति नैषधे । उदरे वलित्रिकं भवेद्भाग्यवद्योषिताम् । उत्प्रे क्ष्यते-यदङ्गयष्टया यस्या देव्या अङ्गयष्टयास्तनूलतायाः । 'अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेषस्याहभूयः फणसमुचितः काययष्टीनिकायः' इति नैषधे । तत्र बहली.