________________
५३२
हीरसौभाग्यम् [सर्ग ८ श्लो० ५२-५४ तेव खनकेनेव विरञ्चिना ब्रह्मणा अमृतस्य पीयूषस्य कूपमचीकरत्कारयति स्म । किं कुर्वन् स्मरः । यदङ्ग यस्याः शरीर तदेव गेहं सुवर्णसौध तत्र निवसन्निवास कुर्वन् ॥ इति नाभिः ॥
શ્લોકાર્ય ઈષ્ટ આહારની ઝંખનાથી શાસનદેવીના શરીરરૂ૫ ઘરમાં વસતા કામદેવ માટે બ્રહ્માએ દેવીની નાભીરૂપે જાણે અમૃતની કૂપિકા બનાવી ન હોય ! પર !
यस्यावलग्नेन विगानितेन, पञ्चाननेनानुचिकीर्षयास्य ।
वैमुख्यभाजा विषयाद्विशेषा-त्किं तप्यते भूधरगहरान्तः ॥ ५३ ॥ पञ्चाननेन मृगेन्द्रेण भूधरस्य पर्वतस्य गह्वरान्तर्गुहामध्ये । उत्प्रेक्ष्यते-अस्यावलग्नस्य मध्यस्य अनुचिकीर्षया अनुकर्तुमिच्छया तप्यते तप इव क्रियते । किंभूतेन पञ्चाननेन । यस्या देवताया वलग्नेन मध्यप्रदेशेन विजितेन । पुनः किंमूतेन । विशेषाद्वि. शेषप्रकारेण विषयात् शब्दादिगोचरात् । 'संवत्सरेण रतमेति किलैकवार सिंहावली द्विरदशूकरमांसभोजी, इति हेमचन्द्रवचनात् । अथ च विषयाज्जनपदाच्च विमुखः विरतेन पराङ्मुखेन च । प्रायः सिंहादयो हि श्वापदा विजनघनगहनसानुमत्कन्दर नेवासिन एव भवन्ति ॥
લોકાર્થ શાસનદેવીના મધ્યપ્રદેશ ( કટપ્રદેશ)થી પરાભવ પામેલે, વિશેષરૂપે શબ્દાદિ વિષયોથી વિમુખ બનેલ ( પ્રાયઃ સિંહો વર્ષમાં એક જ વાર વિષયાસકત હોય છે. ) અર્થાત ગ્રામ, નગર. દેશ આદિથી પરા મુખ બનેલ સિંહ, દેવીના કટપ્રદેશની તુલના કરવાની ઈચ્છાથી જ જણે પર્વતની ગુફામાં તપશ્ચર્યા કરતો ન હોય ! ૫૩ છે
तपस्यतः शंभुदिधक्षयाङ्घि-कनिष्ठया स्पृष्टभुवः स्मरस्य ।
मध्य पुरो निर्मितनाभिहोम-कुण्डा तपोवेदिरिव ऋशिष्ठा ॥५४ ॥ अर्थसंगत्या शासनदेव्या मध्य विभातीति संबन्धः । उत्प्रेक्ष्यते-शंभुदिधक्षया स्ववत् शंभोरीश्वरस्यापि दिधक्षया दग्धुमिच्छया भस्मसात्कर्तु काङ्ख्या तपस्यतः तीव तपः कुर्वतः । यतो घोरतपःसाधनमन्तरेण निजाभिलषितसिद्धिर्न स्यात् । तपसि स्थितस्य शिष्ठा अतिशयेन कृशा वेदिरिव तपःकरणातकरोपवेशनवेदिकेव । किंभूता वेदिः । पुरोऽग्रभागे निर्मित निष्पादित नाभिराहवतायास्तुन्दकूपिकैव होमार्थ कुण्ड यस्याः । तापसा हि तपः साधयन्तः मध्वाज्यादि जुह्वति । किंभूतस्य स्मरस्य । अ मिचरणस्य कनिष्ठया प्रान्ताङ्गुल्या कृत्वा स्पृष्टा आश्लिष्टा