Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 557
________________ ५३२ हीरसौभाग्यम् [सर्ग ८ श्लो० ५२-५४ तेव खनकेनेव विरञ्चिना ब्रह्मणा अमृतस्य पीयूषस्य कूपमचीकरत्कारयति स्म । किं कुर्वन् स्मरः । यदङ्ग यस्याः शरीर तदेव गेहं सुवर्णसौध तत्र निवसन्निवास कुर्वन् ॥ इति नाभिः ॥ શ્લોકાર્ય ઈષ્ટ આહારની ઝંખનાથી શાસનદેવીના શરીરરૂ૫ ઘરમાં વસતા કામદેવ માટે બ્રહ્માએ દેવીની નાભીરૂપે જાણે અમૃતની કૂપિકા બનાવી ન હોય ! પર ! यस्यावलग्नेन विगानितेन, पञ्चाननेनानुचिकीर्षयास्य । वैमुख्यभाजा विषयाद्विशेषा-त्किं तप्यते भूधरगहरान्तः ॥ ५३ ॥ पञ्चाननेन मृगेन्द्रेण भूधरस्य पर्वतस्य गह्वरान्तर्गुहामध्ये । उत्प्रेक्ष्यते-अस्यावलग्नस्य मध्यस्य अनुचिकीर्षया अनुकर्तुमिच्छया तप्यते तप इव क्रियते । किंभूतेन पञ्चाननेन । यस्या देवताया वलग्नेन मध्यप्रदेशेन विजितेन । पुनः किंमूतेन । विशेषाद्वि. शेषप्रकारेण विषयात् शब्दादिगोचरात् । 'संवत्सरेण रतमेति किलैकवार सिंहावली द्विरदशूकरमांसभोजी, इति हेमचन्द्रवचनात् । अथ च विषयाज्जनपदाच्च विमुखः विरतेन पराङ्मुखेन च । प्रायः सिंहादयो हि श्वापदा विजनघनगहनसानुमत्कन्दर नेवासिन एव भवन्ति ॥ લોકાર્થ શાસનદેવીના મધ્યપ્રદેશ ( કટપ્રદેશ)થી પરાભવ પામેલે, વિશેષરૂપે શબ્દાદિ વિષયોથી વિમુખ બનેલ ( પ્રાયઃ સિંહો વર્ષમાં એક જ વાર વિષયાસકત હોય છે. ) અર્થાત ગ્રામ, નગર. દેશ આદિથી પરા મુખ બનેલ સિંહ, દેવીના કટપ્રદેશની તુલના કરવાની ઈચ્છાથી જ જણે પર્વતની ગુફામાં તપશ્ચર્યા કરતો ન હોય ! ૫૩ છે तपस्यतः शंभुदिधक्षयाङ्घि-कनिष्ठया स्पृष्टभुवः स्मरस्य । मध्य पुरो निर्मितनाभिहोम-कुण्डा तपोवेदिरिव ऋशिष्ठा ॥५४ ॥ अर्थसंगत्या शासनदेव्या मध्य विभातीति संबन्धः । उत्प्रेक्ष्यते-शंभुदिधक्षया स्ववत् शंभोरीश्वरस्यापि दिधक्षया दग्धुमिच्छया भस्मसात्कर्तु काङ्ख्या तपस्यतः तीव तपः कुर्वतः । यतो घोरतपःसाधनमन्तरेण निजाभिलषितसिद्धिर्न स्यात् । तपसि स्थितस्य शिष्ठा अतिशयेन कृशा वेदिरिव तपःकरणातकरोपवेशनवेदिकेव । किंभूता वेदिः । पुरोऽग्रभागे निर्मित निष्पादित नाभिराहवतायास्तुन्दकूपिकैव होमार्थ कुण्ड यस्याः । तापसा हि तपः साधयन्तः मध्वाज्यादि जुह्वति । किंभूतस्य स्मरस्य । अ मिचरणस्य कनिष्ठया प्रान्ताङ्गुल्या कृत्वा स्पृष्टा आश्लिष्टा

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614