Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 565
________________ : हीरसौभाग्यम् [सर्गः ८ श्लो० ६९-७१ स्वःसुधुवः शासनदेवतायाः पयोधराभ्यां स्तनाभ्यामभासि शुशुमे। भावोक्तिरियम् । भावस्यैकत्वादेकवचनमेव । किंभूताभ्यां पयोधराभ्याम् । प्रसूनानां विकनपञ्चवर्णकुसुमानां मालाभिर्विचित्ररचनाग्रथितमाल्यारैरलंकृताभ्याम् । उत्प्रेक्ष्यते-जगजयाय जगतां तात्स्थ्यात्तद्यपदेशाजगजनानां सुरासुरनागनागराणां जयाय स्ववशीकरणार्थ स्वाकवशवदविधानाय प्रस्थातुकामस्य प्रस्थान कर्तुं कामयमानस्य अघलिन्मनोराज'धानीतः प्रतिष्ठासमानस्य मीनकेतोर्मकरध्वजस्य धात्रीपतेः श्रेयाथै मङ्गलकृते निपाभ्यां कुम्भाभ्यामिव । 'युक्तं हि पार्थिवनिपस्य सतस्तवैव' इति कल्याणमन्दिरस्तवे । तथा 'घटः कुम्भः करीरश्च कलशः कलसो निपः' इति हैम्याम् ॥ શ્લેકાર્થ વિકસ્વર પંચવર્ષીય પુષ્પોની માલાઓથી અલંકૃત શાસનદેવીના સ્તનયુગલ શોભે છે. તે જાણે ત્રણે જગતને જય કરવા માટે પ્રયાણ કરવાની ઈચ્છાવાળા કામદેવરૂપી રાજાના મંગલકલશ ન હોય ! ! ૬૯ છે कुम्भीन्द्रकुम्भौ कुचभूयमूहे-ऽनुभूय यस्याः सुखिनावभूताम् । सुव्यक्तमुक्ताफलमालिकानां, सौभाग्यमाभ्यामिह लभ्यते यत् ॥ ७० ॥ कुम्भीन्द्रस्य गजराजस्य कुम्भौ शिरःपिण्डौ यस्या देव्याः कुचभूयं विश्वसृजो विश्वविधानव्यापारपारवश्यात्स्तनभावमनुभूय संप्राप्य । 'स्वदेवभूयं चरितार्थमस्तु' इति नेषधे । तथा 'भुवो भावे' इति क्यप् । 'ब्रह्मभूयं गतः ब्रह्मभाव प्राप्तः' इति सारस्वतव्याकरणे । सुखिनः सातवन्तः । यद्यस्मात्कारणात् । सु अतिशयेन व्यक्तानां प्रकटानां जगन्नयननिपेयानां मुक्ताफलानामामलकमानमौक्तिकानां श्रेणीनां सजां हाराणां च आभ्यां कुम्भिकुम्भाभ्यां सौभाग्य सुषमा सौन्दर्य लभ्यते प्राप्यते । स्वभावेन तु तयोर्मध्ये मुक्ता गुप्ताः, न लोचनगोचराः सन्ति । यतो भद्रजातित्वेन तयास्तेषामुत्पादात् ॥ શ્લોકાઈ હું માનું છું કે ઐરાવણ હાથીના કુંભસ્થલ દેવીના રતનરૂપે બનીને સુખી થયા ! શાથી? આ બંને કુંભસ્થલેએ પ્રત્યક્ષ મુકતાલની માલાઓના સૌભાગ્ય પ્રાપ્ત કર્યું ! છે ૭૦ प्रसूनतारावलिशालितायां, वेणीतमायामुदिते मुखेन्दौ । यन्माद्यतस्तत्कुचचक्रवाकौ, श्रीस नुसौराज्यविम्भित तत् ॥७१ ॥ प्रसूनानि मालतीकुन्दादिकुसुमानि एव चैत्योत्तारास्तारकास्तेषामावलिः परम्परा तया शालितायां शोभितायां देव्याः शासनदेवतायाः वेणी कबरी सैव तमा रात्रिः ।

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614