________________
:
हीरसौभाग्यम् [सर्गः ८ श्लो० ६९-७१ स्वःसुधुवः शासनदेवतायाः पयोधराभ्यां स्तनाभ्यामभासि शुशुमे। भावोक्तिरियम् । भावस्यैकत्वादेकवचनमेव । किंभूताभ्यां पयोधराभ्याम् । प्रसूनानां विकनपञ्चवर्णकुसुमानां मालाभिर्विचित्ररचनाग्रथितमाल्यारैरलंकृताभ्याम् । उत्प्रेक्ष्यते-जगजयाय जगतां तात्स्थ्यात्तद्यपदेशाजगजनानां सुरासुरनागनागराणां जयाय स्ववशीकरणार्थ स्वाकवशवदविधानाय प्रस्थातुकामस्य प्रस्थान कर्तुं कामयमानस्य अघलिन्मनोराज'धानीतः प्रतिष्ठासमानस्य मीनकेतोर्मकरध्वजस्य धात्रीपतेः श्रेयाथै मङ्गलकृते निपाभ्यां कुम्भाभ्यामिव । 'युक्तं हि पार्थिवनिपस्य सतस्तवैव' इति कल्याणमन्दिरस्तवे । तथा 'घटः कुम्भः करीरश्च कलशः कलसो निपः' इति हैम्याम् ॥
શ્લેકાર્થ વિકસ્વર પંચવર્ષીય પુષ્પોની માલાઓથી અલંકૃત શાસનદેવીના સ્તનયુગલ શોભે છે. તે જાણે ત્રણે જગતને જય કરવા માટે પ્રયાણ કરવાની ઈચ્છાવાળા કામદેવરૂપી રાજાના મંગલકલશ ન હોય ! ! ૬૯ છે
कुम्भीन्द्रकुम्भौ कुचभूयमूहे-ऽनुभूय यस्याः सुखिनावभूताम् ।
सुव्यक्तमुक्ताफलमालिकानां, सौभाग्यमाभ्यामिह लभ्यते यत् ॥ ७० ॥ कुम्भीन्द्रस्य गजराजस्य कुम्भौ शिरःपिण्डौ यस्या देव्याः कुचभूयं विश्वसृजो विश्वविधानव्यापारपारवश्यात्स्तनभावमनुभूय संप्राप्य । 'स्वदेवभूयं चरितार्थमस्तु' इति नेषधे । तथा 'भुवो भावे' इति क्यप् । 'ब्रह्मभूयं गतः ब्रह्मभाव प्राप्तः' इति सारस्वतव्याकरणे । सुखिनः सातवन्तः । यद्यस्मात्कारणात् । सु अतिशयेन व्यक्तानां प्रकटानां जगन्नयननिपेयानां मुक्ताफलानामामलकमानमौक्तिकानां श्रेणीनां सजां हाराणां च आभ्यां कुम्भिकुम्भाभ्यां सौभाग्य सुषमा सौन्दर्य लभ्यते प्राप्यते । स्वभावेन तु तयोर्मध्ये मुक्ता गुप्ताः, न लोचनगोचराः सन्ति । यतो भद्रजातित्वेन तयास्तेषामुत्पादात् ॥
શ્લોકાઈ હું માનું છું કે ઐરાવણ હાથીના કુંભસ્થલ દેવીના રતનરૂપે બનીને સુખી થયા ! શાથી? આ બંને કુંભસ્થલેએ પ્રત્યક્ષ મુકતાલની માલાઓના સૌભાગ્ય પ્રાપ્ત કર્યું ! છે ૭૦
प्रसूनतारावलिशालितायां, वेणीतमायामुदिते मुखेन्दौ ।
यन्माद्यतस्तत्कुचचक्रवाकौ, श्रीस नुसौराज्यविम्भित तत् ॥७१ ॥ प्रसूनानि मालतीकुन्दादिकुसुमानि एव चैत्योत्तारास्तारकास्तेषामावलिः परम्परा तया शालितायां शोभितायां देव्याः शासनदेवतायाः वेणी कबरी सैव तमा रात्रिः ।