SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ मर्ग ८ श्लो० ७१-७२ ] हीरसौभाग्यम् ५४१ 'त्रियामा यामिनी भौती तमी तमा विभावरी' इति हैम्याम् । तस्यां निशायां मुखेन्दौ देवीवदनचन्द्रे उदिते उदयं प्राप्ते सति यत्तस्याः कुचौ स्तनावेव चक्रवाकौ रथाङ्ग विहंगमौ माद्यतः मदं लभेते । यतस्तयोस्तमायां वियोग एव स्यान्न संयोगः । त विरहमपास्य नक्तदिन संयुक्तौ सन्तौ परस्परेण प्रमुदितमनसौ यन्माद्यतस्तत्राहमेवममुना प्रकारेण मन्ये जाने विचारयामि । तत् श्रीसूनोर्लक्ष्मीनन्दनस्य मदनराजस्य सुशो. भनराजतायाः सौराज्यस्य विजृम्भित विलसितम् । यदा सुराज्य स्यात्तदा केषामपि दुःखातको न स्यादेवेति ॥ લોકાઈ મચકુંદ આદિ વેત પુષ્પોની પંક્તિવડે શોભતી દેવીની વેણીરૂપ રાત્રિમાં મુખરૂપી ચંદ્રને ઉદય થતાં, તેણીના સ્તનયુગલરૂપી બે ચક્રવાકો પરમ આનંદ પામ્યા તે જાણે આ કામદેવરૂપ રાજાના સૌરાજ્યને વિલાસ ન હોય ! | ૭૧ છે पत्रावलीव्याजवती यदीय-वक्षोजदम्भर्षभनामकूटे । विजित्य विश्व विजयप्रशस्ति-लिपीकृता श्रीसुतचक्रिणेव ।। ७२ ॥ विश्व सचराचर जगद्विजित्य निजाज्ञापालनपर प्रणीय श्रीसुतः कामनामा चक्री सार्वभौमः तेन । उत्प्रेक्ष्यते यदीयो यस्या देव्या अयं देवीसंबन्धी यो वक्षोजः स्तनः स एव दम्भः कपट यस्य तादृशे ऋषभनामकूटे क्षुल्लहिमवगिरिनिकटवर्तिनि षट्खण्डजयविधायिनश्चक्रवर्तिनः स्वनामलिखनस्थाने जिनशासनप्रसिद्धे । ऋषभकूटनामशैलशिलायामित्यर्थः । पत्रावली पत्रवल्ली स्तनतटे चान्दनद्रवो विविधरचनाविशेषः। यथा हेमाचार्यकृतकर्णराजवर्णने-'मुखे हारावाप्तिनयनयुगले कङ्कणभरो नितम्बे पत्राली सतिलकमभूत्पाणियुगलम्' इति । यथा पत्राली अपि सैव व्याजः कपट विद्यते यस्यास्तादृशी विजयप्रशस्तिरिव लिपीकृता लिखिता । यन्मया सचराचरमपि त्रैलोक्य स्वभुज वीर्यवैभवेन विजित्य मच्छासनवशंवदं व्यधायि । इत्यहंकारसूचकाक्षरमालिका लिखितेव स्वयम् । 'अविरलमिदमम्भः स्वेच्छयोच्छालयन्त्या विकचकमलकान्तोत्तानहस्तद्वयेन । परिकलित इवार्थः कामबाणातिथिभ्यः सलिलमिव वितीर्ण बाल्यलीलासुखाय ॥' इति चम्पूकथायाम् । एवमेका केवलैवोत्प्रेक्षा दृश्यते तस्मात्केवलोत्प्रेक्षा युक्तिमती चम्पूक्तेरानयनेनेति न कश्चिद्दोषः ॥ इति स्तनौ ॥ શ્લોકાર્થ ચરાચર સમગ્ર વિશ્વને જીતીને, કામદેવરૂપી ચક્રવતીં રાજાએ દેવીના સ્તનરૂપ ઋષભકૂટ ઉપર ચંદનના પ્રવાહીથી અર્ચાયેલી પત્રાવલીના બહાને, જાણે વિજય પ્રશસ્તિ લખી ન હોય ! જેમ ચક્રવર્તી રાજા ખંડ પૃથ્વીને છતને ક્ષુલ્લક હિમવંત પર્વતની નજીકના ઋષભકૂટ નામના પર્વતની
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy