________________
-
५४२
हीरसौभाग्यम्
[सर्ग ८ श्लो० ७२-७४
શિલા ઉપર પોતાના નામની વિજય પ્રશસ્તિ લખે છે, તેમ કામદેવરૂપી રાજાએ ત્રણે લેક જીતીને મારી આજ્ઞાને આધીન કર્યા છે. આવા અહંકારની સૂયક વિજયપ્રશસ્તિ જાણે લખી नबोय !) ॥७२॥
यया स्ववक्षोरुहयोजितेन, तुमश्रिया रोहणभूधरेण ।
दत्तानि दण्डे किमुदात्तलक्ष्मी-पुष्पाणि पाण्योर्नखरच्छलेन ॥ ७३ ॥ यया देव्या स्वयोरात्मीययोर्वक्षोरुहयोरुरोजन्मनोः स्तनयोस्तुश्रिया उच्चत्वलक्ष्म्या जितेनाभिभूतेन रोहणभूधरेण रत्नाचलेन पाण्योर्नखराणां कामाङ्कुशानां छलेन कपटेन । उत्प्रेक्ष्यते-उदात्तानि महाया॑णि । 'उदात्तनायकोपेता' इति चम्पूकथायाम् । तथा 'उदात्तो महात्मा महाय॑श्च नायको वृत्तस्वामी मध्यमणिश्च तेनोपेता युक्ता' इति तट्टिप्पणके । लक्ष्मीपुष्पाणि पद्मरागमणयः दण्डे विजयावसाने दण्डकरणसमये दत्तानि किं विश्राणितानीव । तथा-'अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः पञ्चाशन्मदगन्धलुब्धमधुपक्रोधोधुराः सिन्धुराः । अश्वानामयुत मरुधुवतिजिद्वाराङ्गनानां शत दण्डे पाण्ड्यनृपेण ढौकितमिदं वैतालिकस्यापितम् ॥' इति विक्रमार्कदानपत्रे । अत्रापि ढौकितमने दत्तमुक्तम् ॥
બ્લેકાઈ દેવીના સ્તનયુગલની ઉન્નતતાની લક્ષ્મીથી પરાભવ પામેલા રોહણાચલ પર્વતે બે હાથના નખના બહાને, શ્રેષ્ઠ પદ્મરાગમણિ જાણે દંડમાં આપ્યા ન હેય ! ! ૭૩
स्वयं विनिर्मापयितुं जयं स्व-शोभापराभावुकयन्नखानाम् । राजानमभ्यर्थयते स्वकान्त-मुपान्तयाता किमु तारकाली ।। ७४ ॥
उपान्तयाता समीपे समेता तारकाली ताराश्रेणी । उत्प्रेक्ष्यते-स्वकान्त निजभर्तारं राजान चन्द्र भूपतिं च किमु अभ्यर्थयते याचतीव । किं कर्तुम् । स्वस्याः शोभायाः वैभवस्य पराभावुकानां पराभवनशीलानां यस्या देव्या नखानां कामाकुशानां निजेनात्मनैव पराभव निर्मापयितु कारयितु हे राजन् त्व तथास्माक' साहाय्य कुरु यथा धयं स्वयं वैरिणो जयामः । 'नखानामुपमानानि रत्नताराप्रसूनानि' इत्यादि काव्यकल्पलतायाम् ॥ इति पाणिनखाः ॥
પ્લેકાર્થ પિતાના પતિ ચંદ્રની પાસે આવેલી તારાઓની શ્રેણી જાણે આ પ્રમાણે યાચના કરતી ન હોય! કે પિતાની શોભાથી પરનો પરાભવ કરવામાં તત્પર એવા દેવીના નખોને પરાભવ આપવા માટે હે. રાજન ! તું અમને સહાય કર, કે જેથી અમારા વૈરીને અમે પરાભવ કરી શકીએ.' ૭૪ છે