SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ सर्ग ७ श्लो० ५७-५९] हीरसौभाग्यम् ४८७ यतो हैम्यामपि सर्वेषां नामानि सामान्येनैवोक्तानि न विशेषात् , यथा-'नक्षत्र तारका ताराज्योतिषी भमुडुग्रहाः । धिष्णयमृक्षम्' इति, तथापि उपलक्षणाद्ग्रहनक्षत्रतारकाणां लक्षात्कपटात् श्रमाम्बुभिः बहुविनोदविधानोद्भूतप्रस्वेदसलिलैबिन्दवः संजाता अस्मिन्निति । स्वार्थ कः। बिन्दुकित जलकणकलित जातम् । 'स्वेदबिन्दुकितनासिकाशिख तन्मुख सुखयति स्म नैषधम् इति नैषधे । किं बभूव संजातमिव ॥ લેકાર્થ સંપૂર્ણ દિવસ પોતાના કામુક પતિ સૂર્યની સાથે હાસ્ય-વિનોદ આદિ કામક્રીડાઓ કરવાથી, ગગનલક્ષ્મીના વક્ષસ્થલમાં રહેલા ગ્રહ, નક્ષત્ર અને તારાઓ તે જાણે શ્રમજલનાં (દજલન) લાખ બિંદુઓ ન હોય ! પછા आगन्तुकस्योदयशृङ्गिशङ्गा-स्थानीं तमोद्विड्दमनस्य राज्ञः । नभोवितान किमकारि तारा-मुक्ताङ्कित सृष्टिकृतोपरिष्टात् ॥ ५८ ॥ सृष्टिकृता जगतत्सर्गविधायकेन विधात्रा राक्षश्चन्द्रस्य पृथिवीपुरंदरस्य उपरिष्टात् मस्तकोपरितनभागे । उत्प्रेक्ष्यते-तारास्तारका उपलक्षणान्नक्षत्रताराग्रहा एव मुक्ता. फलानि तरङ्किन विचित्ररचनाचारिमाञ्चित नभो गगनतलमेव वितान चन्द्रोदयः किमकारि निर्मितम् । रचितमिव । राज्ञः किंभूतस्य । शृङ्गिणः पर्वतस्य । पूर्वपर्वतस्येत्यर्थः । शृङ्ग शिखर तदेवास्थानीमुपवेशनसभामागन्तुकस्य आगमनशीलस्य । पुनः किंभूतस्य । तमांस्येव द्विषन्तः शत्रवस्तेषां दमनस्यान्तकारकस्य । 'अप्यन्तकारिदम. नदर्पच्छिन्मथनादयः' इति हैम्याम् ॥ લોર્થ ઉદયાચલ પર્વતના શિખરરૂપ સભામંડપમાં નિરંતર આવનાર (સભ્ય) તેમજ અંધકારરૂપ શત્રનું દમન કરનાર એવા ચન્દ્રરાજાના મસ્તક ઉપર બ્રહ્માએ ગ્રહ-નક્ષત્ર-તારાઓ રૂપ મુક્તાફલેથી ચિત્ર વિચિત્ર એવો આકાશતલરૂ૫ ચંદર જાણે બનાવ્યો ન હોય ! પાપા नभोगसारङ्गदृशां रतीश-राभस्यवश्यप्रियखेलिनीनाम् । वक्षःस्थहारच्युतमुक्तिकाभि--नभःस्थली तारकिता किमासीत् ॥ ५९॥ रतीशराभस्येन तारुण्यवयस्त्वेन यन्मदनौत्सुक्य यौवनोन्मादेन मदनात्युत्कण्ठाभाक्त्वेन वश्या म्वायत्तीभूता ये प्रिया वल्लभास्तैः सम स्म रमन्ते वात्स्यायनोक्तविविधविनोदैः खेलन्ति क्रीडन्तीत्येवंशीलास्तादृशीनाम् । 'भीम कृत्वाङ्कखेलनम्' इति पा. ण्डवचरित्रे । नभसि आकाशे गच्छन्तीति नभोगा देवास्तेषां सारङ्गदृशो मृगलोचनाः स्त्रियो देव्यस्तासां वक्षःसु हृदयस्थलेषु तिष्ठन्तीति वक्षस्थास्तादृशा हारा मुक्ताकलापा
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy