________________
४८६
हीरसौभाग्यम्
[सर्ग ७ श्लो० ५५-५७
अथ तमःप्रसारानन्तरं झगझगितिकृद्भिर्देदीप्यमानैरुपैः किरणैर्विमिश्राः करम्बितास्तादृशास्तारका ज्योतिर्मण्डला नभःपदव्यां गगनमार्ग उददीप्यन्त प्रस्फुरन्ति स्म । उत्प्रेक्ष्यते-स्वकान्त निजवल्लभं रात्रिपतित्वाञ्चन्द्रम् । 'रोहिणीद्विजनिशौषधीपतिः' इति हैमीवचनात् । आयान्तमागच्छन्तम् । स्वपाच इत्यध्याहारः । अवेत्य विज्ञाय राज्या चन्द्रपत्न्या । 'उषादोषेन्दुकान्ता' इति हैम्याम् । मार्ग भर्तुरागमनस्याध्वनि पुप्पोपचारः कुसुमप्रकरो व्यरचि विरचित इव ॥
साथ અંધકારના સમૂહમાં ઝગઝગાટ કિરણોથી મિશ્રિત તારામંડલ રફુરાયમાન થયું. પિતાના પતિ ચંદ્રનું આવાગમને જાણીને ચંદ્રપત્ની નિશાદેવીએ જાણે પતિના માર્ગમાં પુષ્પો પાથર્યા ન હોય ! અર્થાત પુષ્પોની રચના કરી ન હોય ! પપપ
कुक्षिभरि क्षोणिनभःपदव्यो-दृप्ताहित संतमस जिघांसोः ।
ताराः स्वयं राज्ञ इहायियासोः, पताकिनीव प्रसृता पुरस्तात् ॥ ५६ ।। इह जगति गगनाङ्गणे वा स्वयमात्मना यियासोरागन्तुकामस्य राज्ञः रजनीजीवितवल्लभस्य पार्थिवपुंगवस्य च पुरस्तादने तारास्तारकारूपा पताकिनी सेनेव प्रसृता प्रसरति स्म । यत्र राशोऽभिषेणनाभिलाषस्तत्र पुरस्त्वरितमनीकं प्रसरतीति रीति तिश्च । राज्ञः किं कर्तुमिच्छोः । क्षोणिनभःपदव्योश्चतुर्दिग[न्त]सागरान्तगगनाम्बरमण्डलयोः कुक्षिभरि भृतमध्यम् । तथा दृप्त जगदाक्रम[ण]कारकम् । तथा अहित प्रतिपक्षम् । 'ध्वान्तस्य रविचन्द्ररत्नदीपका विपक्षाः' इति काव्यकल्पलतायाम् । संतमसमन्धः कार' जिघांसोर्हन्तुमिच्छोः । अन्योऽपि बलवान् भूपतिप्त भुवमाक्रामन्त बलिष्ठ प्रतिपन्थिन हन्तुमिच्छति ॥
કાર્ય આકાશ-પૃથ્વીના મધ્યભાગને વ્યાપ્ત કરવાની અને અંધકારરૂપ બળવાન શત્રુનો નાશ કરવાની ઈચ્છાથી સ્વયં આકાશમાં આવવા ઈચ્છતા ચંદ્રરૂપી રાજાની આગળ તારાઓ રૂપી સેના આકાશમાં પ્રસરી ગઈ પકા
चिरंविनोदैर्दिननायकेना-भिकेन साकं सुरवमलक्ष्म्या ।
नक्षत्रलक्षात्किमशेषवक्षः, श्रमाम्बुभिविन्दुकित बभूव ॥ ५७ ।। अभिकेन निजकामुकेन दिननायकेन साक भानुमता सम चिर बहुकाल सकल वासर यावद्विनोदैविविधमानसाभिलषितक्रीडारसैः कृत्वा सुरवमलक्ष्म्या गगनश्रिया अशेषमखिल वक्षो हृदयस्थलम् । उत्प्रेक्ष्यते-नक्षत्राणामुडूनाम् इति सामान्योक्तिः ।