Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 506
________________ सर्ग ७ श्लो० ४३-४५] हीरसौभाग्यम् ४८१ ___ अथ संध्यारागभवनानन्तरमभ्रे आकाशे प्रदोषो यामिनीमुख संध्या तस्य यो रागो रक्तिमा तस्यान्तरे मध्ये मनाक् किंचन संतमसैरन्धकारैः प्रकटीबभूवे प्रादुर्भूतम् । कैरिव । स्मयमानकृष्णवल्लीप्ररोहैरिव । यथा वार्धिमध्ये पारावारान्तरालभूमौ प्रवालपुजे विद्रुमकन्दलवृन्दे विस्मेरकृष्णलतानां 'कालीवेल' इति लोकमध्ये प्रसिद्धानामङ्कुरैः प्रकटीभूयते ॥ શ્લોકાર્થ સમુદ્રની મધ્યમાં રહેલાં પરવાળાઓના પુંજમાં જેમ વિકસ્વર કાલીવેલના અંકુરા પ્રગટ થાય તેમ આકાશમાં થયેલા સંખ્યારાગની મધ્યમાં કંઈક અંધકારરૂપ અંકુર પ્રગટ થયા. ૪મા विभ्राजिसंध्याभ्रपरम्पराभि-रलम्भि भूच्छायभरैर्विभूतिः । स्मेरारुणाम्भोरुहमण्डलीभि-भृगैरिवान्तर्मधुपानलीनैः ॥ ४४ ॥ विभ्राजन्त इत्येवंशीलाभिविभ्राजिनीभिः शोभनशीलाभिः संध्यारागरक्तीभूतानामभ्राणां वर्दलिकानां परम्पराभिः श्रेणीभिः कर्तीभिभूच्छायभरैरन्धकारनिकरैः करणे विभूतिः शोभा अलम्भि संप्राप्ता । काभिरिव । स्मेरारुणाम्भोरुहमण्डलीभिरिव यथा विकचानां कोकनदानां मालिकाभिः अन्तर्विकसितकोशमध्ये मधूनां मकरन्दानां पानार्थमास्वादनकृते लीनैरातृप्तिपानरसान्निश्चलीभूतै गर्ध मरैः कृत्वा लक्ष्मीः शोभा प्राप्यते ॥ કલેકાર્થ જેમ વિકરવર રાકમલેના કેશની મધ્યમાં રસપાનમાં લુપી બનેલા શ્રમરે શોભે છે, તેમ સુશોભિત સંધ્યારાગનાં રકતવર્ષીય વાદળેની શ્રેણીમાં અંધકાર શેભે છે. ૪૪ तमोगणालिङ्गिनभोङ्गणश्रीः, संध्याभ्ररागच्छरिता चकासे । वृन्दारकैः कुङ्कुमगन्धधूली-द्रवैरिवासिच्यत शक्रमार्गः ॥ ४५ ॥ संध्यासमयोद्भूतानामभ्राणां रागै रक्तिमभिश्छुरिता व्याप्ता । 'चन्दनच्छुरित वपुः' इति पाण्डवचरित्रे । तमसां तिमिराणां गणेन समुदायेन आलिङ्गिता चुम्बिता कलिता नभोङ्गणश्रीगंगनतललक्ष्मीश्चकासे शोभते स्म । उत्प्रेक्ष्यते-वृन्दारकैर्देवैः कुकुमैघुसणरसकलितैर्गन्धधूलीनां जात्यमृगनाभीनां द्रवैः पकैः कृत्वा शक्रमार्गः पुरंदरपदवी गगनमसिच्यत सिक्त इव । 'येनामुना बहुविगाढसुरेश्वराध्व-' इति नैषधे । 'सुरेश्वराध्वा गगनम्' इति तद्वृत्तिः ॥ सार्थ સંધ્યા સમયે ઉત્પન્ન થયેલા વાદળોની રક્તતાવડે વ્યાપ્ત બનેલી ગગનલક્ષ્મીને અંધકારે

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614