________________
सर्ग ७ श्लो० ४३-४५] हीरसौभाग्यम्
४८१ ___ अथ संध्यारागभवनानन्तरमभ्रे आकाशे प्रदोषो यामिनीमुख संध्या तस्य यो रागो रक्तिमा तस्यान्तरे मध्ये मनाक् किंचन संतमसैरन्धकारैः प्रकटीबभूवे प्रादुर्भूतम् । कैरिव । स्मयमानकृष्णवल्लीप्ररोहैरिव । यथा वार्धिमध्ये पारावारान्तरालभूमौ प्रवालपुजे विद्रुमकन्दलवृन्दे विस्मेरकृष्णलतानां 'कालीवेल' इति लोकमध्ये प्रसिद्धानामङ्कुरैः प्रकटीभूयते ॥
શ્લોકાર્થ સમુદ્રની મધ્યમાં રહેલાં પરવાળાઓના પુંજમાં જેમ વિકસ્વર કાલીવેલના અંકુરા પ્રગટ થાય તેમ આકાશમાં થયેલા સંખ્યારાગની મધ્યમાં કંઈક અંધકારરૂપ અંકુર પ્રગટ થયા. ૪મા
विभ्राजिसंध्याभ्रपरम्पराभि-रलम्भि भूच्छायभरैर्विभूतिः ।
स्मेरारुणाम्भोरुहमण्डलीभि-भृगैरिवान्तर्मधुपानलीनैः ॥ ४४ ॥ विभ्राजन्त इत्येवंशीलाभिविभ्राजिनीभिः शोभनशीलाभिः संध्यारागरक्तीभूतानामभ्राणां वर्दलिकानां परम्पराभिः श्रेणीभिः कर्तीभिभूच्छायभरैरन्धकारनिकरैः करणे विभूतिः शोभा अलम्भि संप्राप्ता । काभिरिव । स्मेरारुणाम्भोरुहमण्डलीभिरिव यथा विकचानां कोकनदानां मालिकाभिः अन्तर्विकसितकोशमध्ये मधूनां मकरन्दानां पानार्थमास्वादनकृते लीनैरातृप्तिपानरसान्निश्चलीभूतै गर्ध मरैः कृत्वा लक्ष्मीः शोभा प्राप्यते ॥
કલેકાર્થ જેમ વિકરવર રાકમલેના કેશની મધ્યમાં રસપાનમાં લુપી બનેલા શ્રમરે શોભે છે, તેમ સુશોભિત સંધ્યારાગનાં રકતવર્ષીય વાદળેની શ્રેણીમાં અંધકાર શેભે છે. ૪૪
तमोगणालिङ्गिनभोङ्गणश्रीः, संध्याभ्ररागच्छरिता चकासे ।
वृन्दारकैः कुङ्कुमगन्धधूली-द्रवैरिवासिच्यत शक्रमार्गः ॥ ४५ ॥ संध्यासमयोद्भूतानामभ्राणां रागै रक्तिमभिश्छुरिता व्याप्ता । 'चन्दनच्छुरित वपुः' इति पाण्डवचरित्रे । तमसां तिमिराणां गणेन समुदायेन आलिङ्गिता चुम्बिता कलिता नभोङ्गणश्रीगंगनतललक्ष्मीश्चकासे शोभते स्म । उत्प्रेक्ष्यते-वृन्दारकैर्देवैः कुकुमैघुसणरसकलितैर्गन्धधूलीनां जात्यमृगनाभीनां द्रवैः पकैः कृत्वा शक्रमार्गः पुरंदरपदवी गगनमसिच्यत सिक्त इव । 'येनामुना बहुविगाढसुरेश्वराध्व-' इति नैषधे । 'सुरेश्वराध्वा गगनम्' इति तद्वृत्तिः ॥
सार्थ સંધ્યા સમયે ઉત્પન્ન થયેલા વાદળોની રક્તતાવડે વ્યાપ્ત બનેલી ગગનલક્ષ્મીને અંધકારે