________________
४८२
हीरसौभाग्यम्
सर्ग श्लो० ४५-४८
%3
આલિંગન કર્યું. અથવા કુંકુમના રસવાળી કરતૂરીના પ્રવાહીથી આકાશનું સિંચન કર્યું ન હોય ! ૪પા
सुधान्धसामध्वनि सांध्यगगो-ल्लास विलुप्य प्रसृतं तमोभिः ।
मलीमसाः स्वावसरं प्रपद्य, परोदयं हन्त कुतः सहन्ते ॥ ४६॥ सांध्यरागस्य जगत्स्वभावात्प्रादुर्भवतः संध्यायां दिनादौ दिनान्ते च द्वे संध्ये भवतः । अत्र चाधिकारादिनान्तसंध्याया एवेति वाच्यम् । यतोऽग्रेतननिशायां शासनदेवता समेष्यती विवक्ष्यते रागो रक्तिमा तस्योल्लासमाविर्भाव प्रसार वा विलुप्य निराकृत्य निषिध्य सुधामृतमेवान्धो भोजन येषां ते सुधान्धसो देवाः। 'स्वाहास्वधाक्रतुसुधाभुज आदितेयाः' इति हैमीवचनात् । सुधाशना देवास्तेषामध्वनि मार्ग पथि गगने तमोभिभूच्छायभरैः प्रसृत विस्तृतम् । जगद्व्याप्तमित्यर्थः । युक्तोऽयमर्थः । मलीमसा मलिनाः पापा वा स्वस्यात्मनोऽवसर प्रस्ताव वेलामभ्युदयसमयं वा प्रपद्य प्राप्य । हन्त इति खेदे । परेषामन्येषामात्मव्यतिरिक्तानामुदयमुन्नतिं कुतः सहन्ते । अपि तु नीचस्वभावान्न सहन्ते एव ॥ इति संध्यारागतमिस्रवर्णनम् ॥
કલેકાર્થ સંધ્યારાગના ઉલ્લાસને હઠાવી અંધકારના સમૂહે આકાશને વ્યાપ્ત કર્યું. ખરેખર, “મલીન આશયવાળા નીચ પુરુષો પિતાનો અવસર પામીને બીજાના ઉદયને કયાંથી સહન કરે ?' ૪૬
पुरारिकंसारिपदप्रसत्ते-रजय्यवीर्य शशिनं निशम्य ।
ध्वान्तोपधेस्तस्य निजिघृक्षयेव, तमोभिरभ्रे बहुभिर्बभूवे ॥ ४७ ।। ध्वान्तानामन्धकाराणामुपधेाजात् । उत्प्रेक्ष्यते-तमोभिः स्वर्भानुभिरभ्र आकाशे बहुभिघनर्बभूवे सजातमिव । अनेके विधुतुदा बभूवुरित्यर्थः। कया । तस्य स्वकवलाय. मानस्य शशिनो निजिघृक्षया निग्रहीतुमिच्छया निग्रहं कतु कानया । किं कृत्वा । पुरनाम्नो दैत्यस्य अरिः शत्रुरीश्वरस्तस्य तथा कंसनामासुरस्य अरिद्वेषी तस्य च पदस्य क्रमस्य विष्णुपदस्य प्रसत्तेः प्रसादात्सेवानुभावाज्जेतुमशक्यमजय्य वीर्य पराक्रमो यस्य तादृश शशिन चन्द्र निशम्य आकर्ण्य ॥
પ્લેકાર્થ આકાશમાં અંધકારના બહાને ઘણા રાહુઓ પ્રગટ થયા ! શા માટે ? ઈશ્વર તથા વિષ્ણુના ચરણના પ્રભાવથી અજેય પરાક્રમવાળા ચંદ્રને સાંભળીને તેને ચાસ કરવાની ઇચ્છાથી જાણે ઘણા રાહુઓ પ્રગટ થયા ન હોય ! ૪૭
कचिज्जगत्साक्षिणमेक्ष्य यात, जगज्जगज्जीवपिबो जिघत्सुः । स्वीय विभाव्यावसरं स्मरारि-भूच्छायकायां सृजतीव मायाम् ।।४८॥