SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् सर्ग २ श्लो० १०-११ अमुना कुंरासाहनाम्ना महेभ्येन स्वगोधनस्य निजगोकुलस्योपधिना कपटेन धा. मनि अर्थादात्ममन्दिरे इमाः सकलजगजनदृग्गोचराः सुधाशधेनवः कामगव्य इव अरक्ष्यन्त रक्षिताः । किं कृत्वा । वदान्यता दानशीलत्वं तस्या गुणैरुत्कर्षः स्फूर्तिभिर्वा मिथः परस्पर परिस्पर्धितया समन्तात्स्पर्धनशीलत्वेन विजित्य पराभूय गृहे रक्षिताः ॥ साथ કરાશાવે ગેકુળના બહાને પોતાના ઘરમાં જાણે કામધેનુ ગાયનું રક્ષણ કર્યું હતું. શા માટે ? પોતાના દાનેશ્વરીપણાના ગુણની સાથે પરસ્પર સ્પર્ધાને કરતી હોવાથી તે કામધેનુઓને પરાભવ કરીને જાણે પિતાના ઘેર રાખી લીધી ન હોય? ૧૦ सुपात्रसस्नेहगुणाग्र्यवृत्तिभृ-त्तमःप्रतीपः स्वकुलप्रकाशकृत् । प्रदीपदेश्योऽपि पर न धूमभाक्, कुल न चाध्यामलयत् कदापि यः ।।११।। यो महेभ्यः प्रदीपस्य देश्योऽपि सदृशोऽपि सन् । 'देव देवेन्द्रदेशीयम्' इति पाण्डवचरित्रे । पर केवल कदापि कस्मिन्नपि प्रस्तावे न धूमभाक् न निषेधे कोपयुक्तो वभूव । धूमशब्देन कोपः। यथा भक्तामरस्तोत्रे–नि मवत्तिरपवर्जिततैलपूर-' इति । दीपस्तु धूमयुक्तः । च पुनः कदाचिदपि कुल वंशमपवादादिना नाध्यामलयन्न मलिनीचकार । दीपस्तु यत्र रक्ष्यते तद् गृह स्थान वा श्यामलयति । 'कुलकुल्यगणे गेहे देहे जनपदेऽन्वये' इत्यनेकार्थः । किंभूत इभ्यः । सुशोभनानि पात्राणि महाव्रताणुव्रतधारकादिसंघो यस्य, तथा सहस्नेहेन देवे गुरी स्वजनादिपु प्रीत्या वर्तते यः सः, तथा गुणेरौदायर्यादिभिरग्रयां मुख्यां वृत्ति वाणिज्यादिकामाजीविका वा विभर्तीति । 'वृत्तिस्तु वर्तने । केशिक्यादौ जीवने च' इत्यनेकार्थः । सर्वेष्वप्यग्रेसरो वा । पश्चात्कर्मधारयः । पुनः कि भूतः । तमसामज्ञानानां पापानां वा प्रतीपः शत्रुः स्वय पुण्यकर्माण्याचरन् परानपि धर्म दृढीकरोति । पुनः किंभूतः । स्वस्यात्मनः कुलमोकेशवंशस्तत्र प्रकाशकृत् उद्योतकर्ता । स्वेन सूरिसिंहेन सूनुना वा । दीपोऽपि पात्रकलितः, स्नेहेन तैलेन युक्तः। 'तैल स्नेहोऽभ्यञ्जन च' इति हैम्याम् । तन्तुप्रधानदशाधारकः । 'वृत्तिर्वतिश्च तद्दशा' इति हैम्याम् । तथा ध्वान्तोच्छेत्ता, यस्मिन् गृहे येन वा प्रबोधितस्तदेव तस्य वा गेह तत्रोद्योतकारकः॥ બ્લેકાર્થ કુરાશાહ દીપકતુલ્ય હેવા છતાં કયારેય કોઈને પ્રત્યે ક્રોધાતુર બનતા ન હતા. અથવા નિંદા આદિથી કયારે પણ પોતાના કુલને મલીન કરતા ન હતા. દીપક તો જે સ્થાને રાખવામાં આવ્યા હોય તે રથાનને ધૂમાડાથી મલીન કરે છે. વલી દેવ, ગુરુ, સંધ સ્વજન આદિ સુપાત્રો પ્રત્યે પ્રીતિને
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy