Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 191
________________ 189 ॥ श्री लोकतत्त्वनिर्णय-ग्रन्थः ॥७॥ NAT - प्रणिपत्यैकमनेकं, केवलरूपं जिनोत्तमं भक्त्या ॥ भव्यजनबोधनार्थ, नृतत्त्वनिगमं प्रवक्ष्यामि | ॥१॥ भव्याऽभव्यविचारो, न हि युक्तोऽनुग्रहप्रवृत्तानाम् । कामं तथापि पूर्व, परीक्षितव्या बुधैः परिषद् ॥ २॥ वज्रमिवाऽभेद्यमनाः, परिकथने चालनीव यो रिक्तः । कलुषयति यथा महिषः, पूनकवदोषमादत्ते।। ३॥ जलमन्थनवत् कथितं, बधिरस्येव हि निरर्थकं तस्य । पुरतोऽन्धस्य च नृत्तं, तस्माद्ग्रहणं तु भद्रस्य ॥४॥ युग्मं ।। आचार्यस्यैव तजाड्यं, यच्छिष्यो नाऽवबुध्यते गावो गोपालकेनेव, कुतीर्थेनावतारिताः ॥५॥ किं वा करोत्यनार्याणा-मुपदेष्टा सुवागपि । तथा तीक्ष्णकुठारोऽपि, दुर्दारुणि विहन्यते ॥ ६ ॥ अप्रशान्तमतो शास्त्र-सद्भावप्रतिपादनम् । दोषायाभिनवोदीणे, शमनीयमिव ज्वरे॥७॥ उदितौ चन्द्रादित्यौ, प्रज्वलिता दीपकोटिरमलाऽपि । नोपकरोति यथाऽन्धे, तथोपदेशस्तमोऽन्धानाम् ॥ ८॥ एकतडागे यद्वत्, पिबति भुजङ्गः शुभं जलं गौश्च । परिणमति विषं सर्प, तदेव गवि जायते क्षीरम् ॥९॥ सम्यगज्ञानतडागे, पिवतां ज्ञानसलिलं सतामसताम् । परिणमति सत्सु सम्यग्, मिथ्यात्वमसत्सु च तदेव ॥१०॥ एकरसमन्तरिक्षात्, पतति जलं तच्च मेदिनीं प्राप्य । नानारसतां गच्छति, पृथक् पृथग् भाजनविशेषात् ॥ ११ ॥ एकरसमपि तु सुवाक्यं, वक्तुर्वदनाद्विनिःसृतं तद्वत् । नानारसतां गच्छति, पृथक् पृथग् SAAMALA5%C5%EOSEXAA Jain Education Kilna For Personal & Private Lise Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258