Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 217
________________ Jain Education 215 णादिति ॥ ७ ॥ तथा सन्तानप्रवृत्तेः ॥ ८ ॥ तथा योगत्रयस्याप्युदग्रफलभावादिति ॥ ९ ॥ तथा निरपेक्षधमोचितस्यापि तत्प्रतिपत्तिकाले परपरार्थसिद्धौ तदन्यसम्पादकाभावे प्रतिपत्तिप्रतिषेधाचेति ॥ १० ॥ नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्तौ साध्यान्तराभावतः सति कायादिसामर्थ्य सद्वीर्याचारासेवनेन तथा प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यतस्तथैव योगवृद्धेः प्रायोपवेशनवच्छ्रेयान्निरपेक्षयतिधर्म इति ॥ ११ ॥ तथा तत्कल्पस्य च परं परार्थलब्धिविकलस्येति ॥ १२ ॥ उचितानुari हि प्रधानं कर्मक्षयकारणमिति ॥ १३ ॥ उदग्रविवेकभावाद्रत्नत्रयाराधनादिति ॥ १४ ॥ अननुष्ठानमन्यद कामनिर्जराङ्गमुक्तविपर्ययादिति ॥ १५ ॥ निर्वाणफलमत्र तत्त्वतोऽनुष्ठानमिति ॥ १६ ॥ न चासदभिनिवेशवत्तदिति ॥ १७ ॥ अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्राना भोगमात्रादिति ॥ १८ ॥ सम्भवति तद्वतोsपि चारित्रमिति ॥ १९ ॥ अनभिनिवेशवांस्तु तद्युक्तः खल्वतत्त्वे ॥ २० ॥ स्वस्वभावो - त्कर्षादिति || २१ || मार्गानुसारित्वादिति ॥ २२ ॥ तथारुचिस्वभावत्वादिति ॥ २३ ॥ श्रवणादौ प्रतिपत्तेरिति ॥ २४ || असदाचारगर्हणादिति ॥ २५ ॥ इत्युचितानुष्ठानमेव सर्वत्र श्रेय इति ॥ २६ ॥ भावनासारत्वात्तस्येति ।। २७ ।। इयमेव प्रधानं निःश्रेयसाङ्गमिति ॥ २८ ॥ एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेरिति ॥ २९ ॥ भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वादिति ॥ ३० ॥ न हि श्रुतमय्या प्रज्ञया भावनादृष्टज्ञातं ज्ञातं नामेति ॥ ३१ ॥ उपरागमात्रत्वादिति ॥ ३२ ॥ दृष्टापायवददृष्टापा (दृष्टवदपा) येभ्योऽनिवृत्ते For Personal & Private Use Only निरपेक्षयतिधर्म गुणादिप्ररूपणम् ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258