Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 238
________________ ॥ ११ ॥ सर्वज्ञ सिद्धि प्रकरणम् ॥ ॥१२०॥ Jain Education I 236 अर्थस्वभावत्वकार्यत्वाभावे इन्द्रियादीनां तेन प्रतिबन्धासिद्धेः, तदवगमे तेषां लिङ्गत्वानुपपत्तिरिति चेत्, न, ज्ञाप्यज्ञापकभावेन प्रतिबन्धासिद्ध्यसिद्धेः, न च सामग्र्यपेक्षया ग्राह्यवत् ज्ञानजननस्वभावत्वमेषां, सर्वथा तदभिन्नस्वभावत्वे ततस्तत्प्रतीतिप्रसङ्गात्, स्वभावभेदे च सिद्धमेषां ज्ञापकत्वमिति । आह-एवमप्यमीषां ज्ञापकधर्मातिक्रमः, अज्ञातज्ञापनात्, न हि धूमादाविव तज्ज्ञानादिपुरःसरमर्थज्ञानं, तथा सत्यभावात्, अक्षेपेणैवार्थप्रतीतेरिति, न, स्वभाववैचित्र्यतस्तद् भावसिद्धेरज्ञातज्ञापकस्वभावत्वात्, ज्ञापकस्वभावत्वं चेह प्रयोजकं, अन्यथा कार्ये व्यतिरेकतस्तत्कारणत्वाङ्गीकरणेऽपि तत्त्वतस्तद्वदेतेषां हेतुधर्मातिक्रमः, बुद्ध्यादियुतत्वाभ्युपगमाच्च, न चैतदनुपपत्तिज्ञप्तौ तेषामेव त्वचेतनत्वेन ज्ञातृत्वायोगात्, किश्च परोक्षमात्रता चेह प्रतिपादयितुमिष्टा ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तमात्रत्वेनेत्यनुचितः सर्वसाधर्म्याभिनिवेशः, न चैवं केवलं, ग्राह्यग्रहीतृमात्रापेक्षितत्वात् कर्मक्षयादेश्च क्षयोपशमादितुल्यत्वादित्यलं प्रसङ्गेन । न चाऽशेषपदार्थग्राह्यतीन्द्रियप्रत्यक्षगोचरातिक्रान्तत्वमस्य, उभयासिद्धेः अभ्युपगमविरोधात् विवादानुपपत्तेश्च अनुमानगोचरातिक्रान्तत्वं पुनरसिद्धमेव, सर्वे धर्मादयः कस्यचित् प्रत्यक्षाः, ज्ञेयत्वाद्, घटवत्, विपक्षो न किञ्चिदित्यनुमानसद्भावात् । अत्राह - नेदमनुमानं, तदाभासत्वात्, इह ह्यप्रसिद्धविशेषणत्वादप्रसिद्धविशेषणः पक्षः, तथाहि सर्वे धर्मादयः कस्यचित् प्रत्यक्षा इत्यत्रातीन्द्रियप्रत्यक्षेण प्रत्यक्षत्वं साधयितुमिष्टं न तत्कस्यचित् प्रसिद्धमिति हेतुरप्यनैकान्तिकः, अप्रत्यक्षस्याप्यभावस्य ज्ञेयत्वोपपत्तेः, For Personal & Private Use Only सर्वज्ञत्व प्रतिषेध पूर्वपक्ष खण्डनम् ॥ ॥१२०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258