Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
237
%E0
% A
| दृष्टान्तोऽपि साध्यविकलः, जात्यन्तरप्रत्यक्षेण प्रत्यक्षत्वासिद्धः। इतरोऽपि साधनाव्यावृत्तःन किञ्चिदिति तुच्छेऽपि ज्ञेयत्वानिवृत्तरिति॥अत्रोच्यते॥ यत्तावदुक्तमप्रसिद्धविशेषणत्वादप्रसिद्धविशेषणःपक्षः इति,एतदयुक्तम् , अनुमानोच्छेदप्रसङ्गात,सर्वत्राप्रसिद्धविशेषणपक्षाभासत्वापत्तेः, एवं ह्यनित्यः शब्द इत्यादावपि वर्णाद्यात्मकव्यक्तिसमवाय्यनित्यत्वेनानित्यत्वं साधयितुमिष्टं, न तत् क्वचित् प्रसिद्धमित्यपि वक्तुं शक्यत्वाद, अनित्यत्वजातिपरिग्रहाददोष इति चेत्, इतरत्रापि प्रत्यक्षत्वजातिपरिग्रहे को दोषः?, इष्टासिद्धिरिति चेत्, शब्दानित्यत्वादी समान एव दोषः, लौकिकत्वादनित्यत्वादेरसमानता इतिचेत्, न, अलौकिकस्यापि वेदापौरुषेयत्वादेर्मेयत्वेन त्वयाऽप्यङ्गीकृतत्वात्, हेतुरप्यदुष्टा, अभावस्याप्रत्यक्षत्वासिद्धेर्वस्तुधर्मत्वात्, अन्यथा वस्त्वनुपपत्तेः, तस्य च प्रत्यक्षत्वात्, अतद्धर्मस्य चात्यन्तासतो ज्ञेयत्वायोगात्, मानेन ज्ञायमानस्य तदुपपत्तेः, तुच्छे च मानप्रवृत्त्यसम्भवादभावाख्यमानस्य च तदविशेषात् तद्वदप्रवृत्तेः ॥
अपरस्त्वाह सर्वज्ञज्ञानस्य ज्ञेयत्वेऽपि प्रत्यक्षत्वानुपपत्तेः, तेनार्थप्रत्यक्षत्वात्, तत्प्रत्यक्षत्वे च तदप्रत्यक्षत्वप्रसङ्गात्, तदन्यसर्वज्ञप्रत्यक्षत्वे चानवस्थापत्तेर्व्यभिचार इति, एतदप्यसत्, तस्यार्थग्रहणरूपस्य स्वसंविदितत्वेनोक्तदोषानुपपत्तेरुभयप्रत्यक्षत्वात्, अन्यथार्थप्रत्यक्षत्वासिद्धेः हल्लेखशून्यस्याविकृतत्वेनात्मनो दर्शिनो दर्शनायोगात्, विकृतत्वे चार्थं पश्यतस्तद्विक्रियैव चिद्रूपाऽज्ञानमिति सर्वज्ञत्वानुपपत्तेश्च ॥
'अपरस्त्वाह हेतुर्येनैव सहाविनाभूतो दृष्टस्तस्यैव गमको भवति, यथा धूमोऽग्नेः,न सभावमात्रात् यस्य
4
%ACOC0%
२१
Jain Education
For Personal & Private Use Only
21 ww.jainelibrary.org

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258