________________
2.39
वहारात्तदुभयनिवृत्तेरिति ॥ आगमगोचरातिक्रान्तत्वमप्यसिद्धं, 'स्वर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यम्' इतिवचनप्रामाण्यात्, केवलिनश्च सर्वज्ञत्वात्, पुरुषकर्तृत्वादिदमप्रमाणमिति चेत्, न तावद् वक्तृत्वेन | तत्कर्तृकत्वासिद्धिः, न चैतत् स्वतन्त्रविरोधि 'नमस्तीर्थाय ' इतिवचनात् न च पुरुषवक्तृकत्वमप्यस्याप्रामाण्ये निमित्तं वेदाप्रामाण्यप्रसङ्गात् न च तदवक्तृका वेदाः, पुरुषव्यापारमन्तरेण नभस्येतद्वचनानुपलब्धेः आनुपूर्वी नियतिभावादेश्चेतरत्रापि तुल्यत्वात् न चार्हद्वक्तृकत्वेनास्य प्रामाण्यं, निश्चिताविप -
प्रत्ययोत्पादकत्वेन कथश्चित् स्वत एव तदभ्युपगमाद्, अन्यथा तदनुपपत्तेः, अनुपपत्तिश्चास्य प्रमाणाभावात् तस्य चोपादानेतरनिमित्तप्रभावेण स्वपराधीनत्वादर्थग्रहणपरिणामप्रत्ययान्तरानुभवतः, स्वपरत एव ज्ञतेः, कर्मकरणनिष्पाद्यस्य तदुभयापेक्षित्वेन स्वपरतः स्वकार्यप्रवर्त्तनात्, न च विज्ञानस्यापरिच्छेदलक्षणोऽपि धर्मो व्यतिरिक्त एव, तस्यायमिति सम्बन्धानुपपत्तेः, कथश्चिदव्यतिरेके च तद्वतस्यापि भावः, न च ज्ञानस्यापि न परतः ' इन्द्रियमनोऽर्थसन्निकर्षो हि ज्ञानस्य हेतुः ' इतिवचनात् परतो भावसिद्धेः, न चागमनित्यत्वेऽपि सर्वज्ञकल्पनावैयर्थ्यं तस्य विहितानुष्ठानफलत्वात् न चादृश्यत्वेनास्य फलकल्पनानुपपत्तिः, स्वर्गादिभिरतिप्रसङ्गात्, न च ते सुखादिरूपत्वाद् दृइया एवेति न्याय्यं, प्रकृष्टसुखविशेषस्यादृश्यत्वात् न च सुखमात्रानुभवरूप एव स्वर्गः, अतिप्रसङ्गात्, यतः कुतश्चित्तद्भा| वेन चोदनानर्थक्यापत्तेश्च न च सुखसामान्यदर्शनात् वः प्रकृष्टतद्विशेषसम्भवानुमानमबाधकं, ज्ञानसा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org