Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 244
________________ २५२ ॥११॥ सर्वज्ञ सिद्धि प्रकरणम् ॥ ॥१२३॥ 45-45SCRESC0 उपमाना पत्तिप्रमाणातिक्रान्तत्व इति चेत्, तदुपलब्धसम्प्रदायाविच्छेदेन, न स दुःसम्प्रदाय इत्यत्र किं प्रमाणमिति चेदू, ब्राह्मण्याधिगमसम्प्रदायेऽपि समानमेतत् , तव्यवहारबाधाऽभावदर्शनादसमानमिति चेत् , न, इतरत्राप्युभयभा. वात्समानमेव, दृश्यते च वेदाध्ययनादिवत्तन्नमस्कारस्थापनादिर्वाधारहितो व्यवहार इति, अगृहीतगोगवयस्यापि गोरिव नोपमानगोचरातिक्रान्तत्वमेव, एतेनासर्वज्ञपुरुषसाधादसर्वज्ञत्वोपमानमेव तत्र | युक्तमिति यदुच्यते परैस्तदपि प्रत्युक्तं, न चोपमानोपमेययोः प्रसिद्धसाधारणधर्मातिरेकेण सर्वधमैरुपमानप्रवृत्तिः, यथा शस्त्री श्यामा देवदत्ता, तत्र हि साधारणश्यामत्वावच्छिन्नरूपतैव केवलं प्रतीयते, नान्ये शस्त्रीगता धर्माः, तदध्यारोपे तु शस्त्रीरूपतैव स्यात् , इह चासर्वज्ञाः पुरुषा उपमानं, उपमेयो विवक्षितः पुरुषविशेषः, कस्तयोः प्रसिद्धः साधारणो धर्म इति वाच्यं, वक्तृत्वपुरुषत्वादिरिति चेत् न, सिद्धसाध्यतापत्तेः, यथा पुरुषो वक्ता तथाऽयमपीत्यभ्युपगमात्, एतत्साधर्म्यसिद्ध्या तत्रासर्वज्ञत्वस्यापि सिद्धिरिति चेत्, न, देवदत्तायामपि श्यामत्वसिद्धेः तैयादिभावप्रसङ्गात्, दृष्टविरोधादप्रसङ्ग इति चेत्, इतरत्र नद्विरोधाभावः केन सिद्ध इति वाच्यं, तद्भावोऽपि केन सिद्ध इति चेत्, अविरुद्धविधेस्तेन विरोधेन सहावस्थानाभावनियमाभावतस्तत्सम्भवोपपत्तेः,अविरुद्धश्च ज्ञानप्रकर्षों वक्तत्वादिनेति||अर्थापत्तिगोचरातिक्रान्तत्वं युक्त्यनुपपन्नमेव, 'अग्निहोत्रं जुहुयात्स्वर्गकाम' इत्यादौ दृष्टस्य हवनादेः श्रुतस्य च स्वर्गादेरर्थस्य तत्साध्यसाधनसम्बन्धज्ञातारमन्तरेणानुपपत्तेः, अशक्यश्चायं पुरुषेण ज्ञातुमृतेऽतीन्द्रियार्थदर्शनात्, अपर 413 सर्वज्ञताप्रतिषेधपूर्वपक्षखण्डनम् ॥ ॥१२३॥ Jain Education in For Personal & Private Lise Only SILw.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258