Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 242
________________ ॥११॥ सर्वत्र सिद्धि । प्रकरणम्॥ ॥१२२॥ A00%A5%CE%A4% मान्यदर्शनेन प्रकृष्टतद्विशेषसम्भवानुमानप्राप्तेः॥ स्यादेतद् ॥ अहन्नेवागमस्य वक्तेत्यागमस्य केवल्युक्तत्वं केवलित्वाचास्य तदुक्तानुष्ठानफलत्वमितीतरेतराश्रयदोषः, नैवम् , वेदवक्तृष्वपि हिरण्यगर्भादिषु समानत्वात् , तेषामपि विशेषेण तदुक्तानुष्ठानफलत्वात् , अनादिमत्त्वादस्य तद्वन्त एव वक्तार इति चेत्, इतरत्रापि समानमेतत् , अर्हतामप्यनादित्वाभ्युपगमात्, तेऽन्यवेदवक्तृवेदवक्तार इति चेत्, अर्हन्तोऽप्यन्याहदुक्तागमवक्तार इति समानमेव, तदन्याहदुक्तत्वानपेक्षित्वेन तेषां तद्वक्तृत्वादसमानमिति चेत्, न, अनपेक्षित्वासिद्धेः, तयैवानुपूर्व्याऽभिधानात्, अन्याहन्मुखाधीतागमवक्तारोन भवन्तीत्यसमानमेवेति चेत्, न, जातिस्मरणातिशयवेदवक्तृत्ववत् केवलातिशयतस्तदा तथाऽऽगमवक्तृत्वेऽन्याहन्मुखाधीतत्वस्याप्रयोजकत्वात् , अन्यदा चान्यतद्वक्तृमुखाधीतत्वस्य तत्रात्यपि समानत्वात्, अवेदत्वादागमस्यासमानमिति चेत्, न, अवेद एवागमे न्यायमार्गतुल्यतायाः प्रतिपादयितुमिष्टत्वाद्, अन्यथा वेदस्याप्यनागमत्वात् नास्मदुक्तन्यायानुपातित्वमिति वक्तुं शक्यत्वात्, भवदागमप्रामाण्ये विगानमिति चेत् ? वेदप्रामाण्येऽपि तुल्यमेतत्, तथापि स एव प्रमाणं नागम इति चेत्, न, कोशपानाहते प्रमाणाभावात्, एवमितरेतराश्रयदोषानुपपत्तेश्चोदनानुष्ठानफलत्वेनागमात् सिद्धः सर्वज्ञ इति । उपमानगोचरातिक्रान्तत्वमपि न न्यायसङ्गतम्, उपलब्धसर्वज्ञस्य हृद्गताशेषसंशयपरिच्छेदादिना तदन्योपलब्धौ तत्सादृश्यप्रतीतिसिद्धेः, अगृहीतगोगवयस्य गव्यप्यसिद्धेः, न चैतावता गोस्तद्गोचरातिक्रान्तत्वं, अनभ्युपगमात्, न स केनचिद् आगमप्रमाणातिक्रान्तत्व रूपसर्वज्ञत्व| प्रतिषेध पूर्वपक्षखण्डनम्॥ ॥१२२॥ ACCESS Jain Education For Persons & Private Lise Only 6 ww.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258