Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 253
________________ 25 SAGARCARROSAROKAR अप्रतीतेस्तदेकत्व-नित्यत्वादेश्च सर्वथा ॥५४॥ सन्तत्यपेक्षयाऽप्येत-निरन्वयविनाशिषु ॥ तदभावात्तथाभेदा-देकान्तेन न युज्यते ॥ ५५ ॥ एतच्च सर्वमन्यत्र, प्रबन्धेनोदितं यतः ॥ ततः प्रतन्यते नेह, लेशतस्तूक्तमेव हि ॥५६॥ अतः स्याद्वादनीत्यैव, परिणामिनि बोद्धरि ॥ तथा चित्रस्वभावे च, सर्व बन्धादि युज्यते ॥५७॥ य एव बध्यते जीवो, मिथ्यात्वादिसमन्वितः ॥ कर्मणा मुच्यते सम्यक्त्वादियुक्तः स एव हि ॥ ५८॥ बद्धोऽहमिति निर्वेदात्, प्रवृत्तिरपि युज्यते । परिणामित्वतस्तस्य, तत्क्षयाय कदाचन ॥ ५९ ॥ तपःसंयमयोगेषु, कर्मबन्धदवाग्निषु ॥ प्रवृत्तौ तत्क्षयाच्छुद्धि-मोक्षश्चानुपचारतः ॥ ६०॥ स ताकिं न निर्वेदात्, सर्वेषामेव देहिनाम् ॥ युगपज्जायते किञ्च, कदाचित् कस्यचिन्ननु ? ॥ ६१॥ अनादिभव्यभावस्य, तथाभावत्वतस्तथा ॥ कर्मयोगाच निर्वेदः, स ताहक्न सदैव हि ॥ ६२॥ स्यादनेकान्तवादेऽपि, स स्यात् सर्वज्ञ इत्यपि ॥ न्याय्यमापद्यते तेन, सोऽपि नैकान्तसुन्दरः ।। ६३ ॥ स्वगतेनैव सर्वज्ञः, सर्वज्ञत्वेन वर्तते ॥ न यः परगतेनापि, स स इत्युपपद्यते ॥ १४ ॥ अन्यथाऽन्यगतेनापि, वर्तनात्वेन सोऽन्यवत् ॥ अन्यः स्यादित्यनेकान्ता-देव तद्भावसंस्थितिः॥६५॥ अन्येषामिव भावानां, स्वसत्ता तबलाद्यतः॥ अतः सश्चिन्त्यतां सम्यक्, कथं नैकान्तसुन्दरः? ॥६६॥ एवं च सिद्धः सर्वज्ञ-स्तद्वाक्यात् जिन एव तु ॥ तस्मादलं प्रसङ्गेन, सिद्धार्था हि यतो वयम् ॥ ६७॥ कृत्वा ह्यदः प्रकरणं भुवनैकसारं, सर्वज्ञरत्नगतमोहविनाशहेतुः॥ Jain Education Intel For Personal & Private Use Only Salv.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258