Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
260
सर्वज्ञ
॥११॥ सर्वज्ञसिद्धि प्रकरणम् ॥
॥१२७॥
वक्तृत्वस्था| पनपूर्वक| सर्वज्ञवि| शेषसिद्धथुपदर्शनम् ॥
तत्कल्पनेऽतिप्रसङ्गः, कातरविवक्षायां कचिच्छ्रशब्दप्रयोगदर्शनात्, तत्राप्यन्तराले शूरविवक्षाऽस्तीति चेत्, न, प्रमाणाभावात्, तच्छब्दप्रयोगान्यथानुपपत्तिः प्रमाणमिति चेत्, न, सन्देहानिवृत्तेः अविवक्षापूर्वकत्वेऽपि विरोधासिद्धः, तदभावे त्वहेतुकत्वेन सदा तच्छब्दप्रयोगापत्तेविरोधसिद्धिरिति चेत्, न, अहेतुकत्वासिद्धेःतथाविधभाषाद्रव्यात्मप्रयत्नहेतुकत्वात्, तेषां च तथाविधत्वस्यादृष्टादिनिबन्धनत्वात्, अन्यथा विवक्षाया अपि सदाभावेनोक्तदोषानतिवृत्ता,-अमनस्कत्वेन च भगवत इच्छानुपपत्तिः, तथावाग्योगस्य च चेष्टामात्रत्वात् , ' ततश्च सा चेच्छाभावतो हि यद्राग' इत्येतदप्यपार्थकमेव, तत्रेच्छाभावासिद्धेः, भावेऽपि शुद्धेच्छाया रागायोगात् , तथा लोकप्रतीतेः, ततश्च वक्तृत्वादसर्वज्ञ इति वाङ्मात्रमेव॥
संक्षेपादिति सर्वज्ञः, सन्न्यायोक्त्या निदर्शितः॥ सामान्येन विशेषस्तु, ज्ञेयस्तद्वाक्यतो बुधैः ॥४७॥ वाक्यलिङ्गा हि वक्तारो, गुणदोषविनिश्चये ॥ क्रियालिङ्गा हि कर्तारः, शिल्पमार्गे यथैव हि ॥४८॥ दृष्टशास्त्राविरुद्धार्थ, सर्वसत्त्वसुखावहम् ॥ मितं गम्भीरमाल्हादि, वाक्यं यस्य स सर्ववित् ॥४९।। एवम्भूतं तु यद्वाक्यं जैनमेव ततः स वै ॥ सर्वज्ञो नान्य एतच्च, स्याद्वादोक्त्यैव गम्यते ॥ ५० ॥ न नित्यैकान्तवादे यद्, बन्धमोक्षादि युज्यते ॥ अनित्यैकान्तवादेऽपि, बन्धमोक्षादि युज्यते ॥५१॥ जीवः स्वभावभेदेन, | बध्यते मुच्यते च सः॥ ऐक्यापत्तेस्तयोर्नित्यं, तथा बन्धादिभावतः ॥ ५२ ॥ तयोरत्यन्तभेदेऽपि, न बद्धो मुच्यते कचित्॥ एवं च सर्वशास्त्रोक्तं, भावनादि निरर्थकम् ॥५३॥ नाचेतनस्य बन्धादि, केवलस्यैव युक्तिमत्॥
॥१२७॥
Jain Education
For Personal & Private Use Only
W
ww.jainelibrary.org

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258