Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
24
कालवत् प्रवाहतोऽनादित्वसिद्धेः, अन्यथा प्राक्कालाभावतोऽवीजत्वेन पश्चादपि तदभावापत्तिः, न ह्यसत् सद्भवति, अतिप्रसङ्गात्, न चाननुभूतवर्तमानस्यातीतता, वर्तमानकल्पं च कृतकत्वमिति ॥
आह-कुतः पुनरमीषां प्रक्षय ? इति, उच्यते, प्रतिपक्षभावनातः, सा चानेकान्तभावना, तत्प्रतिपक्षादुपेक्षासम्भवसामर्थ्यदर्शनात् , इह “यतो यद्भवति तत्प्रतिपक्षान्न तद्भवितुमर्हति" इति न्यायः, गुणदोषैकान्तग्रहाच रागद्वेषौ, अतस्तत्प्रतिपक्षभूतादनेकान्तत एवोपेक्षासम्भवो नान्यथा, तथाहि-उभयात्मकैकत्वोपग्रहादुपेक्षैव दृश्यते स्त्रीशरीरादिषु तद्विदा, तस्यां गुणा दोषाश्च, ततः किमनयेति व्यवहारदर्शनात्, सा चोपेक्षा संवरवतां सत्त्वानां, निमित्ताऽभावेन अभावादागन्तुकमलस्य, तच्चोपेक्षा परिणामादिहेतुतःप्रक्षयात् (च) प्राक्तनस्य, समासादयतां ज्ञानवृद्धिं सूक्ष्मेक्षिकयापि वस्तुनि पश्यतां तदतदात्मकत्वमभ्यासातिशयेन प्रकृष्टौदासीन्यरूपा जायत इति प्रयासः, तदेव परमार्थतो वीतरागत्वं, उक्तं च-" औदासीन्यं तु सर्वत्र, त्यागोपादानहानितः॥ वासीचन्दनकल्पानां, वैराग्यं नाम कथ्यते ॥१॥" इति, प्रपश्चितमेतद्भावनासिद्धाविति नेह प्रयासः॥
यच्चोक्तं किंच जात्यादि-युक्तत्वादेवमादिना ॥ असर्वज्ञत्वसंसिद्धयै, प्रमाणं तत् परीक्ष्यते ॥२२॥ असाविति न सर्वज्ञो, वक्तृत्वादु देवदत्तवत्॥तत्र किंचिज्ज्ञ इष्टश्चेत्, न ज्ञातं तेन किं मतम् ॥२३॥ यदि यागादिविधयो, मिथ्यार्थत्वेन निश्चिताः॥प्रोक्ता हिंसादयः सर्वे, यतो दुर्गतिहेतवः ॥ २४ ॥अन्यत्वं च विरोधो
Jain Education in
For Personal Private Use Only
K
w.jainelibrary.org

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258