Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
246
सर्वज्ञ सिद्धि प्रकरणम्॥
रागादिक्षयानुपपत्ति
॥१२५॥
HARACHAR
न्ततुच्छत्वाभावतः स्वराद्धान्तविरोधाभावः, न हि पररूपाभावः स्वरूपभावपृथग्भूत एवेत्येकान्ततुच्छताभावः, न चैवमसर्वज्ञे सर्वज्ञाभावावगमो नेष्यते, न चैवमपि तत्तुच्छतैव, तद्भावस्येतरत्राभावात् , एकान्ततुच्छभावस्य चातुच्छे तदतदभाव एवाभावादित्यतो नास्ति षष्ठोऽस्तिकाय इति प्रसिद्धोपादान एवाप्रमाणभूत एव विकल्पः, न साक्षात्तुच्छगोचरस्तदप्रतिभासनेन विधिनिषेधाविषयत्वात्तस्येति, अपराभावानवगमादेवास्तिकायेषु संख्यानियमादिसिद्धिरिति सूक्ष्मधिया भावनीयम् ३ ॥
यच्चोक्तं 'रागादिप्रक्षयात्' (श्लो०१४) इत्यादिना रागादीनामात्मस्वभावत्वात् प्रक्षयानुपपत्तिरिति,एतदप्ययुक्तं, पद्मरागकार्तस्वरमलस्य तत्स्वभात्वेऽपि क्षारमृत्पुटपाकादेः प्रक्षयोपपत्तेर्विशुद्धिकल्याणतादर्शनात् , तदतत्स्वभावत्वे सर्वस्य पद्मरागादेविशुद्ध्यादिप्रसङ्गः, अमलस्वभावत्वात्, न वा कस्यचित् कदाचिद्, अमलस्वभावत्वेऽपि पूर्ववदनुपपत्तेः, न पद्मरागादेमैलं सांसिद्धिकं, भिन्नवस्तुत्वेन तदुपरञ्जकत्वादिति चेत्, आत्मनोऽपि रागादिषु तुल्यः परिहारः, तथाहि-रागादिवेदनीयकर्माणवोऽप्यात्मनो भिन्नवस्तुतामनुभवन्तस्तदुपरञ्जका इति तत्त्वनीतिः, निसर्गशुद्धस्य कथं तदुपरञ्जकाः कथं वा न भूयोऽपवर्गावस्थायामिति चेत्, पद्मरागादिष्वपि समानमेतत्, न ते निसर्गशुद्धा मलेनोपरज्यन्ते, किन्तु तद्ग्रस्ता एवोपजायन्त इति चेत्, आत्मन्यपि रागाद्यपेक्षया तुल्यमेतत् , अनादित्वात् स नोत्पद्यते इति चेत्, अनादिरेव तद्ग्रस्त इति कोऽत्र दोषः?, कृतककर्मभेदत्वात्तेषामनादित्वविरोध इति चेत्, न, कृतकत्वेऽप्यनुभूतवर्तमानभावातीत
सर्वज्ञत्वप्रतिषेधपूर्वपक्षखण्डनम् ॥
॥१२५॥
Jain Education in
For Personal & Private Lise Only
#
ww.jainelibrary.org

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258