Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
238
सर्वज्ञ सिद्धि प्रकरणम्॥
अनुमानप्रमाणातिक्रान्तत्व
रूप
॥१२॥
ACASSANSAR
कस्यचित्, यथा स एव धूमः पानीयस्य, न चातीन्द्रियेषु भावेषु प्रत्यक्षत्वाविनाभावि ज्ञेयत्वं दृष्टं, कथं तत् तेषु तद् गमयेत् ?, अत्रोच्यते, सामान्यतो दृष्टानुमाननीत्या तत् तेषु तद् गमयेत् इति, यथा गतिमानादित्यो देशान्तरमाप्तेः देवदत्तवदित्यत्र, तथाहि-न दिनकरे गतिमत्त्वेन देशान्तरप्राप्तिरविनाभूता दृष्टा, अथ चासौ तद् गमयति, देवदत्ते दृष्टेति सा गमयतीति चेत्, घटेऽपि प्रत्यक्षत्वेन ज्ञेयत्वमविनाभावि दृष्टमेवेति समानमेतत् । अतीन्द्रियप्रत्यक्षत्वेन न दृष्टमिति चेत्, देवदत्तेऽपि न तथा गगनगतिमत्त्वेन देशान्तरमाप्तिरिति समानमेव ॥न साधर्म्यदृष्टान्तदोषः, जात्यन्तरप्रत्यक्षेण तत्र प्रत्यक्षत्वासिद्धावपि सामान्येन प्रत्यक्षत्वसिद्धेः न्याय्यत्वमेव, विशेषानुगमाभावात् ॥ न वैधHदृष्टान्तदोषः, न किश्चिदिति तुच्छाभावतो ज्ञेयत्वनिवृत्तः, प्रतिपादनोपायत्वात् तदभिधाने दोषोऽन्यथा निःस्वभावतया न ततो ज्ञानजन्मातिप्रसङ्गादिति ॥ अथ चेदमनुमानम्-अनेकशास्त्रकलासंवेदनसमन्विते कस्मिंश्चित् पुरुषे सर्वज्ञ इत्युपचर्यमाणो व्यवहारस्तदन्यमुख्यापेक्षः, गौणत्वात्, शौर्यक्रौर्यादिमति चैत्रेऽसिंहे सिंहव्यवहारवत्, विपक्षश्चैत्रव्यवहार इति ॥ नात्र प्रत्यक्षादिविरोधिनी प्रतिज्ञा, तल्लक्षणायोगात्, नासिद्धो हेतुः तत्र गौणत्वस्योभयोः सिद्धत्वात् ॥ नानैकान्तिकः, विपक्षव्यावृत्तेः । न विरुद्धो, दृष्टान्तवत् प्रमाणान्तरप्रसिद्धतदन्यमुख्यापेक्षत्वसाधनस्य तद्ग्राहकप्रमाणप्रसिद्ध्यभ्युपगमेऽनवकाशत्वात् ॥ न साधनधर्माद्यसिद्धः साधर्म्यदृष्टान्तः, उभयधर्मप्रसिद्धः॥ न साधनाव्यावृत्तादिरितरः, चैत्रे स्वव्य
सर्वज्ञत्वप्रतिषेधपूर्वपक्षखण्डनम्॥
प्रत्यक्षत्वसिद्धेः न्याय साधर्म्यदृष्टान्तदोषः जात्या, देवदत्तेऽपि न तथा गमत्वमा
CAREERARERAKAR
॥१२॥
Jain Education
a
l
For Personal & Private Use Only
Kuww.jainelibrary.org

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258