SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ 238 सर्वज्ञ सिद्धि प्रकरणम्॥ अनुमानप्रमाणातिक्रान्तत्व रूप ॥१२॥ ACASSANSAR कस्यचित्, यथा स एव धूमः पानीयस्य, न चातीन्द्रियेषु भावेषु प्रत्यक्षत्वाविनाभावि ज्ञेयत्वं दृष्टं, कथं तत् तेषु तद् गमयेत् ?, अत्रोच्यते, सामान्यतो दृष्टानुमाननीत्या तत् तेषु तद् गमयेत् इति, यथा गतिमानादित्यो देशान्तरमाप्तेः देवदत्तवदित्यत्र, तथाहि-न दिनकरे गतिमत्त्वेन देशान्तरप्राप्तिरविनाभूता दृष्टा, अथ चासौ तद् गमयति, देवदत्ते दृष्टेति सा गमयतीति चेत्, घटेऽपि प्रत्यक्षत्वेन ज्ञेयत्वमविनाभावि दृष्टमेवेति समानमेतत् । अतीन्द्रियप्रत्यक्षत्वेन न दृष्टमिति चेत्, देवदत्तेऽपि न तथा गगनगतिमत्त्वेन देशान्तरमाप्तिरिति समानमेव ॥न साधर्म्यदृष्टान्तदोषः, जात्यन्तरप्रत्यक्षेण तत्र प्रत्यक्षत्वासिद्धावपि सामान्येन प्रत्यक्षत्वसिद्धेः न्याय्यत्वमेव, विशेषानुगमाभावात् ॥ न वैधHदृष्टान्तदोषः, न किश्चिदिति तुच्छाभावतो ज्ञेयत्वनिवृत्तः, प्रतिपादनोपायत्वात् तदभिधाने दोषोऽन्यथा निःस्वभावतया न ततो ज्ञानजन्मातिप्रसङ्गादिति ॥ अथ चेदमनुमानम्-अनेकशास्त्रकलासंवेदनसमन्विते कस्मिंश्चित् पुरुषे सर्वज्ञ इत्युपचर्यमाणो व्यवहारस्तदन्यमुख्यापेक्षः, गौणत्वात्, शौर्यक्रौर्यादिमति चैत्रेऽसिंहे सिंहव्यवहारवत्, विपक्षश्चैत्रव्यवहार इति ॥ नात्र प्रत्यक्षादिविरोधिनी प्रतिज्ञा, तल्लक्षणायोगात्, नासिद्धो हेतुः तत्र गौणत्वस्योभयोः सिद्धत्वात् ॥ नानैकान्तिकः, विपक्षव्यावृत्तेः । न विरुद्धो, दृष्टान्तवत् प्रमाणान्तरप्रसिद्धतदन्यमुख्यापेक्षत्वसाधनस्य तद्ग्राहकप्रमाणप्रसिद्ध्यभ्युपगमेऽनवकाशत्वात् ॥ न साधनधर्माद्यसिद्धः साधर्म्यदृष्टान्तः, उभयधर्मप्रसिद्धः॥ न साधनाव्यावृत्तादिरितरः, चैत्रे स्वव्य सर्वज्ञत्वप्रतिषेधपूर्वपक्षखण्डनम्॥ प्रत्यक्षत्वसिद्धेः न्याय साधर्म्यदृष्टान्तदोषः जात्या, देवदत्तेऽपि न तथा गमत्वमा CAREERARERAKAR ॥१२॥ Jain Education a l For Personal & Private Use Only Kuww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy