SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 2.39 वहारात्तदुभयनिवृत्तेरिति ॥ आगमगोचरातिक्रान्तत्वमप्यसिद्धं, 'स्वर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यम्' इतिवचनप्रामाण्यात्, केवलिनश्च सर्वज्ञत्वात्, पुरुषकर्तृत्वादिदमप्रमाणमिति चेत्, न तावद् वक्तृत्वेन | तत्कर्तृकत्वासिद्धिः, न चैतत् स्वतन्त्रविरोधि 'नमस्तीर्थाय ' इतिवचनात् न च पुरुषवक्तृकत्वमप्यस्याप्रामाण्ये निमित्तं वेदाप्रामाण्यप्रसङ्गात् न च तदवक्तृका वेदाः, पुरुषव्यापारमन्तरेण नभस्येतद्वचनानुपलब्धेः आनुपूर्वी नियतिभावादेश्चेतरत्रापि तुल्यत्वात् न चार्हद्वक्तृकत्वेनास्य प्रामाण्यं, निश्चिताविप - प्रत्ययोत्पादकत्वेन कथश्चित् स्वत एव तदभ्युपगमाद्, अन्यथा तदनुपपत्तेः, अनुपपत्तिश्चास्य प्रमाणाभावात् तस्य चोपादानेतरनिमित्तप्रभावेण स्वपराधीनत्वादर्थग्रहणपरिणामप्रत्ययान्तरानुभवतः, स्वपरत एव ज्ञतेः, कर्मकरणनिष्पाद्यस्य तदुभयापेक्षित्वेन स्वपरतः स्वकार्यप्रवर्त्तनात्, न च विज्ञानस्यापरिच्छेदलक्षणोऽपि धर्मो व्यतिरिक्त एव, तस्यायमिति सम्बन्धानुपपत्तेः, कथश्चिदव्यतिरेके च तद्वतस्यापि भावः, न च ज्ञानस्यापि न परतः ' इन्द्रियमनोऽर्थसन्निकर्षो हि ज्ञानस्य हेतुः ' इतिवचनात् परतो भावसिद्धेः, न चागमनित्यत्वेऽपि सर्वज्ञकल्पनावैयर्थ्यं तस्य विहितानुष्ठानफलत्वात् न चादृश्यत्वेनास्य फलकल्पनानुपपत्तिः, स्वर्गादिभिरतिप्रसङ्गात्, न च ते सुखादिरूपत्वाद् दृइया एवेति न्याय्यं, प्रकृष्टसुखविशेषस्यादृश्यत्वात् न च सुखमात्रानुभवरूप एव स्वर्गः, अतिप्रसङ्गात्, यतः कुतश्चित्तद्भा| वेन चोदनानर्थक्यापत्तेश्च न च सुखसामान्यदर्शनात् वः प्रकृष्टतद्विशेषसम्भवानुमानमबाधकं, ज्ञानसा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy