SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 237 %E0 % A | दृष्टान्तोऽपि साध्यविकलः, जात्यन्तरप्रत्यक्षेण प्रत्यक्षत्वासिद्धः। इतरोऽपि साधनाव्यावृत्तःन किञ्चिदिति तुच्छेऽपि ज्ञेयत्वानिवृत्तरिति॥अत्रोच्यते॥ यत्तावदुक्तमप्रसिद्धविशेषणत्वादप्रसिद्धविशेषणःपक्षः इति,एतदयुक्तम् , अनुमानोच्छेदप्रसङ्गात,सर्वत्राप्रसिद्धविशेषणपक्षाभासत्वापत्तेः, एवं ह्यनित्यः शब्द इत्यादावपि वर्णाद्यात्मकव्यक्तिसमवाय्यनित्यत्वेनानित्यत्वं साधयितुमिष्टं, न तत् क्वचित् प्रसिद्धमित्यपि वक्तुं शक्यत्वाद, अनित्यत्वजातिपरिग्रहाददोष इति चेत्, इतरत्रापि प्रत्यक्षत्वजातिपरिग्रहे को दोषः?, इष्टासिद्धिरिति चेत्, शब्दानित्यत्वादी समान एव दोषः, लौकिकत्वादनित्यत्वादेरसमानता इतिचेत्, न, अलौकिकस्यापि वेदापौरुषेयत्वादेर्मेयत्वेन त्वयाऽप्यङ्गीकृतत्वात्, हेतुरप्यदुष्टा, अभावस्याप्रत्यक्षत्वासिद्धेर्वस्तुधर्मत्वात्, अन्यथा वस्त्वनुपपत्तेः, तस्य च प्रत्यक्षत्वात्, अतद्धर्मस्य चात्यन्तासतो ज्ञेयत्वायोगात्, मानेन ज्ञायमानस्य तदुपपत्तेः, तुच्छे च मानप्रवृत्त्यसम्भवादभावाख्यमानस्य च तदविशेषात् तद्वदप्रवृत्तेः ॥ अपरस्त्वाह सर्वज्ञज्ञानस्य ज्ञेयत्वेऽपि प्रत्यक्षत्वानुपपत्तेः, तेनार्थप्रत्यक्षत्वात्, तत्प्रत्यक्षत्वे च तदप्रत्यक्षत्वप्रसङ्गात्, तदन्यसर्वज्ञप्रत्यक्षत्वे चानवस्थापत्तेर्व्यभिचार इति, एतदप्यसत्, तस्यार्थग्रहणरूपस्य स्वसंविदितत्वेनोक्तदोषानुपपत्तेरुभयप्रत्यक्षत्वात्, अन्यथार्थप्रत्यक्षत्वासिद्धेः हल्लेखशून्यस्याविकृतत्वेनात्मनो दर्शिनो दर्शनायोगात्, विकृतत्वे चार्थं पश्यतस्तद्विक्रियैव चिद्रूपाऽज्ञानमिति सर्वज्ञत्वानुपपत्तेश्च ॥ 'अपरस्त्वाह हेतुर्येनैव सहाविनाभूतो दृष्टस्तस्यैव गमको भवति, यथा धूमोऽग्नेः,न सभावमात्रात् यस्य 4 %ACOC0% २१ Jain Education For Personal & Private Use Only 21 ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy