Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 219
________________ 21 18 HAMRO अध्याय यतिधर्म विधि निरूपणम्॥ परिणते चारित्रपरिणाम इति ॥ ६३ ॥ तस्य प्रसन्नगम्भीरत्वादिति ॥ ६४॥ हितावहत्वादिति ॥ ६५ ॥ चारित्रा(त्रि)णां तत्साधनानुष्ठानविषयस्तृपदेशः, प्रतिपात्यसो, कर्मवैचित्र्यादिति ॥६६॥ तत्संरक्षणानुष्ठानविषयश्च चक्रादिप्रवृत्त्यवसानभ्रमाधानज्ञातादिति ॥ ६७ ॥ माध्यस्थ्ये तद्वैफल्यमेवेति ॥ ६८॥ स्वयंभ्रमणसिद्धेरिति ॥ ६९॥ भावयतिर्हि तथा कुशलाशयत्वादशक्तोऽसमञ्जसप्रवृत्तावितरस्यामिवेतर इति ॥ ७० ।। इति निदर्शनमात्रमिति ॥ ७१ ॥ न सर्वसाधर्म्ययोगेनेति ।। ७२ ॥ यतेस्तदप्रवृत्तिनिमित्तस्य गरीयस्त्वादिति ॥ ७३ ॥ वस्तुतः स्वाभाविकत्वादिति ॥ ७४॥ तथा सदभाववृद्धेः फलोत्कर्षसाधनादिति ।। ७५ ॥ उपप्लवविगमेन तथावभासनादितीति ॥ ७६ ॥ एवंविधयतेः प्रायो, भावशुद्धेर्महात्मनः॥ विनिवृत्ताग्रहस्योच्चै-मोक्षतुल्यो भवोऽपि हि ॥ ३४ ॥ सद्दर्शनादिसम्पाप्तः, सन्तोषामृतयोगतः ॥ भावैश्वर्यप्रधानत्वात्, तदासन्नत्वतस्तथा ॥ ३५ ॥ उक्तं मासादिपर्याय-वृद्ध्या द्वादशभिः परम् ॥ तेजः प्राप्नोति चारित्री, सर्वदेवेभ्य उत्तमम् ॥ ३६ ॥ इति षष्ठो यतिधर्मविधिनिरूपकोऽध्यायः॥ ॥अथ सप्तमोऽध्यायः॥ फलप्रधान आरम्भ, इति सल्लोकनीतितः॥ सङ्केपादुक्तमस्येदं, ब्यासतः पुनरुच्यते ॥ ३७ ॥ प्रवृत्त्यङ्गमदः श्रेष्ठं, सत्त्वानां प्रायशश्च यत् ॥ आदौ सर्वत्र तयुक्त-मभिधातुमिदं पुनः ॥ ३८ ॥ यथा ॥ विशिष्टं देवसौख्यं य-च्छिवसौख्यं च यत्परम् ॥ धर्मकल्पद्रुमस्येदं, फलमाहुर्मनीषिणः ॥ ३९ ॥ इत्युक्तो धर्मः ॥ साम्प्रतमस्य फलमनुवर्णयिष्यामः॥१॥ द्विविधं फलम्-अनन्तरपरम्पर HARER S AROSocess Jain Education a l For Personal & Private Use Only Diwww.jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258