Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 220
________________ 21 R ॥८॥ श्री धर्म अध्याय ॥ ७॥ धर्मफल प्ररूपणम्॥ प्रकरणम्॥ ॥११॥ भेदादिति ॥२॥ तत्रानन्तरफलमुपप्लवहास इति ॥ ३॥ तथा भावैश्वर्यवृद्धिरिति ॥ ४ ॥ तथा जनप्रियत्वमिति ॥५॥ परम्परफलं तु सुगतिजन्मोत्तमस्थानपरम्परानिर्वाणावाप्तिरिति ॥ ६॥ सुगतिविशिष्टदेवस्थानमिति ॥ ७॥ तत्रोत्तमा रूपसम्पत् , सत्स्थितिप्रभावसुखद्युतिलेश्यायोगः, विशुद्धेन्द्रियावधित्वं, प्रकृष्टानि भोगसाधनानि, दिव्यो विमाननिवहः, मनोहराण्युद्यानानि, रम्या जलाशयाः, कान्ता अप्सरसः, अतिनिपुणाः किङ्कराः, प्रगल्भो नाट्यविधिः, चतुरोदारा भोगाः, सदा चित्तालादः, अनेकमुखहेतुत्वं, कुशलानुबन्धः, महाकल्याणपूजाकरणं, तीर्थङ्करसेवा, सद्धर्मश्रुतौ रतिः, सदा सुखित्वमिति ॥८॥ तथा तच्युतावपि विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले निष्कलङ्केऽन्वयेन उदग्रे सदाचारेण आख्यायिकापुरुषयुक्ते अनेकमनोरथापूरकमत्यन्तनिरवद्यं जन्मेति ॥९॥ सुन्दरं रूपं, आलयो | लक्षणानां, रहितमामयेन, युक्तं प्रज्ञया, सङ्गतं कलाकलापेन ॥१०॥ तथा गुणपक्षपातः १, असदाचारभीरुता २, कल्याणमित्रयोगः ३, सत्कथाश्रवणं ४, मार्गानुगो बोधः ५, सर्वोचितप्राप्तिः, हिताय सत्त्व-| सङ्घातस्य, परितोषकरी गुरूणां, संवर्द्धनी गुणान्तरस्य, निदर्शनं जनानां ६, अत्युदार आशयः ७, असाधारणा विषयाः, रहिताः सङ्क्लेशेन, अपरोपतापिनः, अमङ्गुलावसाना इति ८ ॥ ११॥ तथा काले धर्मप्रतिपत्तिरिति ॥१२॥ तत्र च गुरुसहायसम्पदिति ॥ १३ ॥ ततश्च साधु संयमानुष्ठानमिति ॥ १४ ॥ ततोऽपि परिशुद्धाराधनेति ॥ १५॥ तत्र च विधिवच्छरीरत्याग इति ॥१६॥ ततो ।॥११॥ Jain Education For Personal & Private Use Only W ww.jainelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258