Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Jain Education l
283
॥ ( ११ ) अथ श्री सर्वज्ञसिद्धिप्रकरणम् ॥
लक्ष्मीभृद् वीतरागः क्षतमतिरखिलार्थज्ञताऽऽश्लिष्टमूर्ति - देवेन्द्राच्यऽप्रसादी परमगुणमहारत्नदो - किञ्चनेशः । तच्चातच्चेतिवक्ता नवितथवचनो योगिनां भावगर्भ ध्येयोऽनङ्गश्च सिद्धेर्जयति चिरगतो मार्ग - देशी जिनेन्द्रः ॥ १ ॥ नास्त्येवाऽयं महामोहात् केचिदेवं प्रचक्षते । कृपया तत्प्रबोधाय ततः सन्याय उच्यते ॥ २ ॥ सर्वज्ञाप्रतिपत्तिर्य-न्मोहः सामान्यतोऽपि हि । नास्त्येवाभिनिवेशस्तु, महामोहः सतां मतः ॥ ३ ॥ अस्माच्च दूरे कल्याणं, सुलभा दुःखसम्पदः । नाज्ञानतो रिपुः कश्चिदत एवोदितं बुधैः ॥ ४ ॥ महामोहाभिभूतानामित्यनर्थो महान् यतः । अतस्तत्त्वविदां तेषु, कृपाऽवश्यं प्रवर्त्तते ॥ ५ ॥ श्रुत्वैतं चेह सन्न्यायं, तथा क्लिष्टस्य कर्मणः । क्षयोपशमभावेन, प्रबोधोऽप्युपपद्यते ।। ६ ।। तदभावेऽपि तद्दोषात्, सफलोऽयं परिश्रमः । कृपाभावत एवेह तथोपायप्रवृत्तितः ॥ ७ ॥ श्रोतॄणामप्रबोधेऽपि, यन्मुनीन्द्रैरुदाहृतम् । आख्यातॄणां फलं धर्म-देशनायां विधानतः ॥ ८ ॥ अलमत्र प्रसङ्गेन, प्रकृतं प्रस्तुमोऽधुना । पूर्वपक्षस्तु सन्न्याय - स्तत्रतः किञ्चिदुच्यते ॥ ९ ॥ प्रत्यक्षादिप्रमाणगो (णैर्गो) - चरातिक्रान्तभावतः । असाध्वी किल सर्वज्ञ - कल्पनाऽतिप्रसङ्गतः ||१०|| प्रत्यक्षेण प्रमाणेन, सर्वज्ञो नैव गृह्यते । लिङ्गमप्यविनाभावि, तेन किञ्चिन्न दृश्यते ॥ ११ ॥ नचाऽऽगमेन यदसौ, विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवां-पमानेनापि गम्यते ॥ १२ ॥ नार्थापत्त्या हि सर्वोऽर्थ-स्तं विनाऽप्युपपद्यते । प्रमाणपञ्चकावृत्ते - स्तत्राभावस्य मानता ॥ १३ ॥
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258