SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Jain Education l 283 ॥ ( ११ ) अथ श्री सर्वज्ञसिद्धिप्रकरणम् ॥ लक्ष्मीभृद् वीतरागः क्षतमतिरखिलार्थज्ञताऽऽश्लिष्टमूर्ति - देवेन्द्राच्यऽप्रसादी परमगुणमहारत्नदो - किञ्चनेशः । तच्चातच्चेतिवक्ता नवितथवचनो योगिनां भावगर्भ ध्येयोऽनङ्गश्च सिद्धेर्जयति चिरगतो मार्ग - देशी जिनेन्द्रः ॥ १ ॥ नास्त्येवाऽयं महामोहात् केचिदेवं प्रचक्षते । कृपया तत्प्रबोधाय ततः सन्याय उच्यते ॥ २ ॥ सर्वज्ञाप्रतिपत्तिर्य-न्मोहः सामान्यतोऽपि हि । नास्त्येवाभिनिवेशस्तु, महामोहः सतां मतः ॥ ३ ॥ अस्माच्च दूरे कल्याणं, सुलभा दुःखसम्पदः । नाज्ञानतो रिपुः कश्चिदत एवोदितं बुधैः ॥ ४ ॥ महामोहाभिभूतानामित्यनर्थो महान् यतः । अतस्तत्त्वविदां तेषु, कृपाऽवश्यं प्रवर्त्तते ॥ ५ ॥ श्रुत्वैतं चेह सन्न्यायं, तथा क्लिष्टस्य कर्मणः । क्षयोपशमभावेन, प्रबोधोऽप्युपपद्यते ।। ६ ।। तदभावेऽपि तद्दोषात्, सफलोऽयं परिश्रमः । कृपाभावत एवेह तथोपायप्रवृत्तितः ॥ ७ ॥ श्रोतॄणामप्रबोधेऽपि, यन्मुनीन्द्रैरुदाहृतम् । आख्यातॄणां फलं धर्म-देशनायां विधानतः ॥ ८ ॥ अलमत्र प्रसङ्गेन, प्रकृतं प्रस्तुमोऽधुना । पूर्वपक्षस्तु सन्न्याय - स्तत्रतः किञ्चिदुच्यते ॥ ९ ॥ प्रत्यक्षादिप्रमाणगो (णैर्गो) - चरातिक्रान्तभावतः । असाध्वी किल सर्वज्ञ - कल्पनाऽतिप्रसङ्गतः ||१०|| प्रत्यक्षेण प्रमाणेन, सर्वज्ञो नैव गृह्यते । लिङ्गमप्यविनाभावि, तेन किञ्चिन्न दृश्यते ॥ ११ ॥ नचाऽऽगमेन यदसौ, विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवां-पमानेनापि गम्यते ॥ १२ ॥ नार्थापत्त्या हि सर्वोऽर्थ-स्तं विनाऽप्युपपद्यते । प्रमाणपञ्चकावृत्ते - स्तत्राभावस्य मानता ॥ १३ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy