Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
234
लभ्यते, भविष्यति क्षान्तिरनाश्रया कथम् ॥ यदाश्रयात्क्षान्तिफलं मयाऽऽप्यते, स सत्कृतिं कर्म च नाम नार्हति ॥१०६॥ संसारवर्त्यपि समुद्विजते विपद्भ्यो, यो नाम मूढमनसां प्रथमः सनूनम् ॥ अम्भोनिधौ निपतितेन शरीरभाजा, संसृज्यतां किमपरं सलिलं विहाय ॥ १०७ ॥ प्रायेणाकृतकृत्यत्वा-न्मृत्योरुद्विजते जनः॥ कृतकृत्याः प्रतीक्षन्ते, मृत्युं प्रियमिवातिथिम् ॥ १०८ ॥ अत्वरापूर्वकं सर्व, गमनं कृत्यमेव वा ॥ प्रणिधानसमायुक्त-मपायपरिहारतः ॥१०९॥ भोगा दानेन भव-न्ति देहिनां सुरगतिश्च शीलेन ॥ भावनया च विमुक्ति-स्तपसा सर्वाणि सिद्ध्यन्ति ॥ ११० ॥ कम्माइ नूणं घणचिक्कणाई, कढिणाई वजसाराइं॥णाणड्डयंपि पुरिसं, पंथाओ उप्पहं नेति ॥१११॥ वजेजा संसरिंग, पासत्थाईहिं पावमित्तेहिं ।। कुज्जा उ अप्पमत्तो, सुद्धचरित्तेहिं धीरेहिं ॥ ११२॥ निर्जितमदमदनानां, वाकायमनोविकाररहितानाम् ।। विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम् ।। ११३ ॥ असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः ॥ प्रिया वृत्तिाय्या मलिनमसुभङ्गेऽप्यसुकरम् ॥ विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां ॥ सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ ११४ ॥ आणोहेणाणंता, मुक्का गेवेजगेसु य सरीरा॥ न य तत्थाऽसंपुण्णाए, साहुकिरियाइ उववाओ ॥ ११५ ॥ यच्च कामसुखं लोके, यच्च दिव्यं महासुखम् ॥ वीतरागसुखस्येद-मनन्ताशे न वर्तते ॥ ११६ ॥ अशोकवृक्षः सुरपुष्पवृष्टि-दिव्यो ध्वनिश्चामरमासनश्च । भामण्डलं दुन्दुभिरातपत्रं, सत्पातिहार्याणि जिनेश्वराणाम् ॥११७ ॥
॥ पद्यानि कतिचिद्योगबिन्द्वादिष्वागतानीत्युपेक्षितानि ॥ इति धर्मबिन्दुवृत्त्युद्धतानि पद्यानि ॥
Jain Education Intel
For Personal & Private Lise Only
Marw.jainelibrary.org

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258