SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 234 लभ्यते, भविष्यति क्षान्तिरनाश्रया कथम् ॥ यदाश्रयात्क्षान्तिफलं मयाऽऽप्यते, स सत्कृतिं कर्म च नाम नार्हति ॥१०६॥ संसारवर्त्यपि समुद्विजते विपद्भ्यो, यो नाम मूढमनसां प्रथमः सनूनम् ॥ अम्भोनिधौ निपतितेन शरीरभाजा, संसृज्यतां किमपरं सलिलं विहाय ॥ १०७ ॥ प्रायेणाकृतकृत्यत्वा-न्मृत्योरुद्विजते जनः॥ कृतकृत्याः प्रतीक्षन्ते, मृत्युं प्रियमिवातिथिम् ॥ १०८ ॥ अत्वरापूर्वकं सर्व, गमनं कृत्यमेव वा ॥ प्रणिधानसमायुक्त-मपायपरिहारतः ॥१०९॥ भोगा दानेन भव-न्ति देहिनां सुरगतिश्च शीलेन ॥ भावनया च विमुक्ति-स्तपसा सर्वाणि सिद्ध्यन्ति ॥ ११० ॥ कम्माइ नूणं घणचिक्कणाई, कढिणाई वजसाराइं॥णाणड्डयंपि पुरिसं, पंथाओ उप्पहं नेति ॥१११॥ वजेजा संसरिंग, पासत्थाईहिं पावमित्तेहिं ।। कुज्जा उ अप्पमत्तो, सुद्धचरित्तेहिं धीरेहिं ॥ ११२॥ निर्जितमदमदनानां, वाकायमनोविकाररहितानाम् ।। विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम् ।। ११३ ॥ असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः ॥ प्रिया वृत्तिाय्या मलिनमसुभङ्गेऽप्यसुकरम् ॥ विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां ॥ सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ ११४ ॥ आणोहेणाणंता, मुक्का गेवेजगेसु य सरीरा॥ न य तत्थाऽसंपुण्णाए, साहुकिरियाइ उववाओ ॥ ११५ ॥ यच्च कामसुखं लोके, यच्च दिव्यं महासुखम् ॥ वीतरागसुखस्येद-मनन्ताशे न वर्तते ॥ ११६ ॥ अशोकवृक्षः सुरपुष्पवृष्टि-दिव्यो ध्वनिश्चामरमासनश्च । भामण्डलं दुन्दुभिरातपत्रं, सत्पातिहार्याणि जिनेश्वराणाम् ॥११७ ॥ ॥ पद्यानि कतिचिद्योगबिन्द्वादिष्वागतानीत्युपेक्षितानि ॥ इति धर्मबिन्दुवृत्त्युद्धतानि पद्यानि ॥ Jain Education Intel For Personal & Private Lise Only Marw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy