________________
21
18
HAMRO
अध्याय
यतिधर्म
विधि निरूपणम्॥
परिणते चारित्रपरिणाम इति ॥ ६३ ॥ तस्य प्रसन्नगम्भीरत्वादिति ॥ ६४॥ हितावहत्वादिति ॥ ६५ ॥ चारित्रा(त्रि)णां तत्साधनानुष्ठानविषयस्तृपदेशः, प्रतिपात्यसो, कर्मवैचित्र्यादिति ॥६६॥ तत्संरक्षणानुष्ठानविषयश्च चक्रादिप्रवृत्त्यवसानभ्रमाधानज्ञातादिति ॥ ६७ ॥ माध्यस्थ्ये तद्वैफल्यमेवेति ॥ ६८॥ स्वयंभ्रमणसिद्धेरिति ॥ ६९॥ भावयतिर्हि तथा कुशलाशयत्वादशक्तोऽसमञ्जसप्रवृत्तावितरस्यामिवेतर इति ॥ ७० ।। इति निदर्शनमात्रमिति ॥ ७१ ॥ न सर्वसाधर्म्ययोगेनेति ।। ७२ ॥ यतेस्तदप्रवृत्तिनिमित्तस्य गरीयस्त्वादिति ॥ ७३ ॥ वस्तुतः स्वाभाविकत्वादिति ॥ ७४॥ तथा सदभाववृद्धेः फलोत्कर्षसाधनादिति ।। ७५ ॥ उपप्लवविगमेन तथावभासनादितीति ॥ ७६ ॥ एवंविधयतेः प्रायो, भावशुद्धेर्महात्मनः॥ विनिवृत्ताग्रहस्योच्चै-मोक्षतुल्यो भवोऽपि हि ॥ ३४ ॥ सद्दर्शनादिसम्पाप्तः, सन्तोषामृतयोगतः ॥ भावैश्वर्यप्रधानत्वात्, तदासन्नत्वतस्तथा ॥ ३५ ॥ उक्तं मासादिपर्याय-वृद्ध्या द्वादशभिः परम् ॥ तेजः प्राप्नोति चारित्री, सर्वदेवेभ्य उत्तमम् ॥ ३६ ॥ इति षष्ठो यतिधर्मविधिनिरूपकोऽध्यायः॥
॥अथ सप्तमोऽध्यायः॥ फलप्रधान आरम्भ, इति सल्लोकनीतितः॥ सङ्केपादुक्तमस्येदं, ब्यासतः पुनरुच्यते ॥ ३७ ॥ प्रवृत्त्यङ्गमदः श्रेष्ठं, सत्त्वानां प्रायशश्च यत् ॥ आदौ सर्वत्र तयुक्त-मभिधातुमिदं पुनः ॥ ३८ ॥ यथा ॥ विशिष्टं देवसौख्यं य-च्छिवसौख्यं च यत्परम् ॥ धर्मकल्पद्रुमस्येदं, फलमाहुर्मनीषिणः ॥ ३९ ॥ इत्युक्तो धर्मः ॥ साम्प्रतमस्य फलमनुवर्णयिष्यामः॥१॥ द्विविधं फलम्-अनन्तरपरम्पर
HARER
S AROSocess
Jain Education
a
l
For Personal & Private Use Only
Diwww.jainelibrary.org