________________
216
॥८॥ श्री धर्म
45
मुमुक्षो
50
बिन्दु
रुचितानुष्ठाननिरूपणम्॥
प्रकरणम्॥
॥११०॥
ASARGAMACHAR
रिति ॥ ३३ ॥ एतन्मूले च हिताहितयोः प्रवृत्तिनिवृत्ती इति ॥ ३४ ॥ अत एव भावनादृष्टज्ञाताद्विपर्ययायोग इति ॥ ३५॥ तद्वन्तो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्यो निवर्तमाना दृश्यन्त एवान्यरक्षादावितीति ॥ ३६ ॥ इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयानिति ॥ ३७॥ तद्भावे निसर्गत एव सर्वथा दोषो- परतिसिद्धेरिति ॥ ३८॥ वचनोपयोगपूर्वा विहितप्रवृत्तियोनिरस्या इति ॥ ३९ ॥ महागुणत्वाद्वचनोपयोगस्येति ॥ ४० ।। तत्र ह्यचिन्त्यचिन्तामणिकल्पस्य भगवतो बहुमानगर्भ स्मरणमिति ॥ ४१ ॥ भगवतैवमुक्तमित्याराधनायोगादिति ॥ ४२ ॥ एवं च प्रायो भगवत एव चेतसि समवस्थानमिति ॥ ४३ ॥ तदाज्ञाऽऽराधनाच्च तद्भक्तिरेवेति ॥४४॥ उपदेशपालनैव भगवद्भक्तिः, नान्या, कृतकृत्यत्वादिति ॥ ४५ ॥ उचितद्रव्यस्तवस्यापि तद्पत्वादिति ॥४६॥ भावस्तवाङ्गतया विधानादिति ॥४७॥ हृदि स्थिते च भगवति क्लिष्टकर्मविगम इति ॥ ४८ ॥ जलानलवदनयोर्विरोधादिति ॥ ४९ ॥ इत्युचितानुष्ठानमेव सर्वत्र प्रधानमिति ॥ ५० ॥ प्रायोऽतिचारासम्भवादिति ॥५१॥ यथाशक्ति प्रवृत्तेरिति ॥ ५२ ।। सदभावप्रतिबन्धादिति ॥ ५३ ॥ इतरथाऽर्तध्यानोपपत्तिरिति ॥५४ ॥ अकालौत्सुक्यस्य तत्त्वतस्तत्त्वादिति ॥ ५५ ॥ | नेदं प्रवृत्तिकालसाधनमिति ॥ ५६ ।। इति सदोचितमिति ॥ ५७ ॥ तदा तदसत्त्वादिति ॥५८॥ प्रभूतान्येव तु प्रवृत्तिकालसाधनानीति ॥५९॥ निदानश्रवणादेरपि केषाञ्चित्प्रवृत्तिमात्रदर्शनादिति ॥ ६०॥ तस्यापि तथापारम्पर्यसाधनत्वमिति ॥ ६१॥ यतिधर्माधिकारश्चायमिति प्रतिषेध इति ॥ ६२॥ न चैतत्
ACROC45604
-2564560
॥११॥
Jain Education in
For Personal & Private Use Only
F
w
.jainelibrary.org