Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Jain Education |
193
लोकक्रियात्मतत्त्वे, विवदन्ते वादिनो विभिन्नार्थम् । अविदितपूर्वं येषां स्याद्वादविनिश्चितं तत्त्वम् ॥ ४१ ॥ इच्छन्ति कृत्रिमं सृष्टि - वादिनः सर्व एवमिति लोकम् । कृत्स्नं लोकं माहेश्वरादयः सादिपर्यन्तम् ॥४२॥ satवरजं केचित् केचित्सोमाग्निसम्भवं लोकम् । द्रव्यादिषड्विकल्पं, जगदेतत् केचिदिच्छन्ति ॥४३॥ द्रव्यगुणकर्मसामान्य-युक्तिविशेषात् (न्) कणाशिनस्तत्त्वम् । वैशेषिकमेताव-ज्जगदप्येतावदेतावत् ॥४४॥ इच्छन्ति काश्यपीयं, केचित्सर्वं जगन्मनुष्याद्यम् । दक्षप्राजापतीयं, त्रैलोक्यं केचिदिच्छन्ति ॥ ४५ ॥ केचित्प्राहुर्मूर्त्ति-स्त्रिधा गतैका हरिः शिवो ब्रह्मा । शम्भुर्बीजं जगतः कर्त्ता विष्णुः क्रिया ब्रह्मा || ४६ || वैष्णवं केचिदिच्छन्ति केचित् कालकृतं जगत् । ईश्वरप्रेरितं केचित् केचिद् ब्रह्मविनिर्मितम् ॥ ४७ ॥ अव्यक्तप्रभवं सर्वं, विश्वमिच्छन्ति कापिलाः । विज्ञप्तिमात्रं शून्यं च, इति शाक्यस्य निश्चयः ॥ ४८ ॥ पुरुषप्रभवं केचिद्, दैवात् केचित् प्रभावतः । अक्षरात् क्षरितं केचित् केचिदण्डोद्भवं जगत् ॥४९॥ यादृच्छिकमिदं सर्व, केचिद् भूतविकारजम् | केचिच्चानेकरूपं तु, बहुधा सम्प्रधाविताः ||२०|| जले विष्णुः स्थले विष्णु-राकाशे विष्णुमालिनि । विष्णुमालाकुले लोके, नास्ति किञ्चिदवैष्णवम् ॥५१॥ सर्वतः पाणिपादान्तं, सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमान् लोके, सर्वमाश्रित्य तिष्ठति ॥ ५२ ॥ ऊर्ध्वमूलमधः शाख-मश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पत्राणि, यस्तं वेत्ति स वेदवित् ॥ ५३ ॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रणष्टोरग राक्षसे || ५४ || केवलं गह्वरी भूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥ ५५ ॥
For Personal & Private Use Only
लोकतन्त्र
विषये
नानावादि
विवादनिरूपणम् ॥
www.jainelibrary.org

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258