________________
189
॥ श्री लोकतत्त्वनिर्णय-ग्रन्थः ॥७॥
NAT
- प्रणिपत्यैकमनेकं, केवलरूपं जिनोत्तमं भक्त्या ॥ भव्यजनबोधनार्थ, नृतत्त्वनिगमं प्रवक्ष्यामि | ॥१॥ भव्याऽभव्यविचारो, न हि युक्तोऽनुग्रहप्रवृत्तानाम् । कामं तथापि पूर्व, परीक्षितव्या बुधैः परिषद् ॥ २॥ वज्रमिवाऽभेद्यमनाः, परिकथने चालनीव यो रिक्तः । कलुषयति यथा महिषः, पूनकवदोषमादत्ते।। ३॥ जलमन्थनवत् कथितं, बधिरस्येव हि निरर्थकं तस्य । पुरतोऽन्धस्य च नृत्तं, तस्माद्ग्रहणं तु भद्रस्य ॥४॥ युग्मं ।। आचार्यस्यैव तजाड्यं, यच्छिष्यो नाऽवबुध्यते गावो गोपालकेनेव, कुतीर्थेनावतारिताः ॥५॥ किं वा करोत्यनार्याणा-मुपदेष्टा सुवागपि । तथा तीक्ष्णकुठारोऽपि, दुर्दारुणि विहन्यते ॥ ६ ॥ अप्रशान्तमतो शास्त्र-सद्भावप्रतिपादनम् । दोषायाभिनवोदीणे, शमनीयमिव ज्वरे॥७॥ उदितौ चन्द्रादित्यौ, प्रज्वलिता दीपकोटिरमलाऽपि । नोपकरोति यथाऽन्धे, तथोपदेशस्तमोऽन्धानाम् ॥ ८॥ एकतडागे यद्वत्, पिबति भुजङ्गः शुभं जलं गौश्च । परिणमति विषं सर्प, तदेव गवि जायते क्षीरम् ॥९॥ सम्यगज्ञानतडागे, पिवतां ज्ञानसलिलं सतामसताम् । परिणमति सत्सु सम्यग्, मिथ्यात्वमसत्सु च तदेव ॥१०॥ एकरसमन्तरिक्षात्, पतति जलं तच्च मेदिनीं प्राप्य । नानारसतां गच्छति, पृथक् पृथग् भाजनविशेषात् ॥ ११ ॥ एकरसमपि तु सुवाक्यं, वक्तुर्वदनाद्विनिःसृतं तद्वत् । नानारसतां गच्छति, पृथक् पृथग्
SAAMALA5%C5%EOSEXAA
Jain Education
Kilna
For Personal & Private Lise Only
www.jainelibrary.org