SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ काशिको, रादि कटुको न भी लोकतत्त्वनिर्णय श्रोतृपात्रा| पात्रविचारः॥ स्वे ॥ १३ ॥ शालावायभावनिकरं सम्माप्य ॥ ९७॥ 230 भावमासाद्य ॥ १२॥ स्वं दोषं समवाप्य नेक्षति यथा सूर्योदये कौशिको, राद्धिं कङ्कटको न याति च यथा तुल्येऽपि पाके कृते। तद्वत्सर्वपदार्थभावनिकरं सम्प्राप्य जैन मतं, बोधि पापधियो न यान्ति कुजनास्तुल्ये कथासम्भवे ॥१३ ॥ शार्दूलविक्रीडितं ॥ हठो हठे यद्वदभिप्लुतः स्या-नौनोवि बद्धा च यथा समुद्रे । तथा परप्रत्ययमात्रदक्षो, लोकः प्रमादाम्भसि बम्भ्रमीति ॥१४॥ यावत्परप्रत्ययकार्यबुद्धि-विवर्त्तते तावदुपायमध्ये । मनः स्वमर्थेषु विघनीयं, न ह्याप्तवादा नभसः पतन्ति ॥१५॥ यचिन्त्यमानं न ददाति युक्ति, प्रत्यक्षतो नाप्यनुमानतश्च । तद् बुद्धिमान् को नु भजेत लोके, गोशृङ्गतः क्षीरसमुद्भवो न ॥१६॥ ये वैनेया विनयनिपुणैस्ते क्रियन्ते विनीताः, नाऽवैनेया विनयनिपुणैः शक्यते संविनेतुम् । दाहादिभ्यः समलममलं स्यात्सुवर्ण सुवर्ण, नायस्पिण्डो भवति कनकं छेददाहक्रमेण ॥ १७ ॥ मन्दाक्रान्ता । आगमेन च युक्त्या च, योऽर्थः समभिगम्यते । परीक्ष्य हेमवद् ग्राह्यः, पक्षपाताग्रहेण किम् ॥ १८॥ मातृमोदकवद् बाला, ये गृह्णन्त्यविचारितम् । ते पश्चात्परितप्यन्ते, सुवर्णग्राहको यथा ॥ १९ ॥ श्रोतव्ये च कृतौ कर्णी, वाग् बुद्धिश्च विचारणे। यः श्रुतं न विचारेत, स कार्य विन्दते कथम् ॥२०॥ नेत्रैर्निरीक्ष्य विषकण्टकसर्पकीटान्, सम्यक् पथा व्रजति तान् परिहृत्य सर्वान् । कुज्ञानकुश्रुतिकुदृष्टिकुमार्गदोषान् , सम्यग् विचारयत कोऽत्र परापवादः ॥२१॥ वसन्ततिलका ॥ प्रत्यक्षतो न भगवानृषभो न विष्णु-रालोक्यते न च हरो न हिरण्यगर्भः । तेषां स्वरूपगुणमागमसम्प्रभावात् , ज्ञात्वा विचारयत कोऽत्र परापवादः ॥ २२ ॥ विष्णुः समुद्यत ॥९७॥ Jain Education in For Persons & Private Lise Only K w.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy