Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 128
________________ ५. केवलज्ञानचर्चा । तैर्योगजधर्मस्य मनःप्रत्यासत्तित्वम् , तेन सन्निकर्षण निखिलजात्यंशे निरवच्छिन्नप्रकारताकज्ञाने, पोडशपदार्थविषयकविलक्षणमानसज्ञाने वा तत्त्वज्ञाननामधेये मनसः करणत्वम् , चाक्षुषादिसामग्रीकाल इव लौकिकमानससामग्रीकालेऽपि तादृशतत्त्वज्ञानानुत्पत्तेस्तत्त्वज्ञानाख्यमानसे तदितरमानससामग्र्याः प्रतिबन्धकत्वम्, तत्त्वज्ञानरूपमानससामयाच प्रणिधानरूपविजातीयमनःसंयोगघटितत्वं कल्पनीयमिति अनन्तमप्रामाणिककल्पनागौरवम् । अस्माकं तु दुरितक्षयमानं तत्र कारणमिति लाघवम् । अत एवेन्द्रियनोइन्द्रियज्ञानासाचिव्येन केवलमसहायमिति प्राञ्चो व्याचक्षते । स चावरणाख्यदुरितक्षयो भावनातारम्यात् तारतम्येनोपजायमानस्तदत्यन्तप्रकर्षात् अत्यन्तप्रकर्षमनुभवतीति किमनुपपन्नम् ? । तदाह अकलङ्को(समन्तभद्रो)ऽपि "दोषावरणयोर्हानिनिःशेषास्त्यतिशायनात् । क्वचिद्यथा खहेतुभ्यो बहिरन्तर्मलक्षयः ॥" [ आप्त० का० ४ ] इति । ६६४. न च 'निम्बाद्यौषधोपयोगात् तरतमभावापचीयमानस्यापि श्लेष्मणो नात्यन्तिकक्षयः' इति व्यभिचारः, तत्र निम्बाद्यौषधोपयोगोत्कर्षनिष्ठाया एव आपादयितुमशक्यत्वात् , तदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदैवासेवनात् , अन्यथा औषधोपयोगाधारस्यैव विनाशप्रसङ्गात् । चिकित्साशास्त्रं हि उद्रिक्तधातुदोषसाम्यमुद्दिश्य प्रवर्तते, 15 न तु तस्य निर्मूलनाशम् , अन्यतरदोषात्यन्तक्षयस्य मरणाविनाभावित्वादिति द्रष्टव्यम् । रागादेः केवलज्ञानावरकत्वसमर्थनम् - ६६५. रागाद्यावरणापाये सर्वज्ञज्ञानं वैशयभाग् भवतीत्यत्र च न विवादो रजोनीहाराद्यावरणापाये वृक्षादिज्ञाने तथा दर्शनात् । न च 'रागादीनां कथमावरणत्वम् ?, कुड्यादीनामेव पौगलिकानां तथात्वदर्शनाद्' इति वाच्यम् , कुड्यादीनामपि प्रातिभादावनावार- 20 कत्वात् , ज्ञानविशेषे तेषामावरणत्ववच्च अतीन्द्रियज्ञाने रागादीनामपि तथात्वमन्वयव्यतिरेकाभ्यामेव सिद्धम् , रागाद्यपचये योगिनामतिन्द्रियानुभवसम्भवात् । पौद्गलिकत्वमपि द्रव्यकर्मानुगमेन तेषां नासिद्धम् , स्वविषयग्रहणक्षमस्य ज्ञानस्य तदग्राहकताया विशिष्टद्रव्यसम्बन्धपूर्वकत्वनियमात् पीतहत्पूरपुरुषज्ञाने तथा दर्शनात् इति ध्येयम् ।। रागादेः कर्मजत्वसिद्धये कफादिजत्वस्य निरास: ६६६. बार्हस्पत्यास्तु- 'रागादयो न लोभादिकर्मोदयनिबन्धनाः किन्तु कफादिप्रकतिहेतुकाः । तथाहि-कफहेतुको रागः, पित्तहेतुको द्वेषः, वातहेतुकश्च मोहः । कफादयश्च सदैव सन्निहिताः, शरीरस्य तदात्मकत्वात् , ततो न सार्वज्ञमूलवीतरागत्वसम्भव' इत्याहुः । तदयुक्तम् , रागादीनां व्यभिचारेण कफादिहेतुकत्वायोगात्, दृश्यते हि वातप्रकृतेरपि रागद्वेषौ, कफप्रकृतेरपि द्वेषमोहौ, पित्तप्रकृतेरपि मोहरागाविति । एकैकस्या: 30 प्रकृतेः पृथक् सर्वदोषजननशक्त्युपगमे च सर्वेषां समरागादिमत्त्वप्रसङ्गात् । न च १ ज्ञानानुपपत्तेः मु अ ब । २ एवेन्द्रियज्ञानासा मु। ३ °क्षयोऽपिभाव मु। ४ भावोपची अ ब । ५ विशिष्टप्रत्ययसम्ब°मुब। ६ दृश्यतेमुअब। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244