Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 126
________________ ५. केवलज्ञानचर्चा । [५. केवलज्ञानचर्चा ।] ६५७. सर्वविषयं केवलज्ञानम् । सर्वविषयत्वं च सामान्यधर्मानवच्छिन्ननिखिलधर्मप्रकारकत्वे सति निखिलधर्मिविषयत्वम् । प्रमेयवदिति ज्ञाने प्रमेयत्वेन निखिलधर्मप्रकारके अतिव्याप्तिवारणाय अनवच्छिन्नान्तम् , केवलदर्शने अतिव्याप्तिवारणाय सत्यन्तम् , विशेष्यभागस्तु पर्यायवाद्यभिमतप्रतीत्यसमुत्पादरूपसन्तानविषयकनिखिलधर्मप्रकारकज्ञा- 5 ननिरासार्थः । वस्तुतो निखिलज्ञेयाकारवत्त्वं केवलज्ञानत्वम् । केवलदर्शनाभ्युपगमे तु तत्र निखिलदृश्याकारवत्त्वमेव, न तु निखिलज्ञेयाकारवत्त्वमिति नातिव्याप्तिः । न च 'प्रतिवं केवलज्ञाने केवलज्ञानान्तरवृत्तिवप्राकालविनष्टवस्तुसम्बन्धिवर्तमानत्वाद्याकाराभावात्' असम्भवः; स्वसमानकालीननिखिलज्ञेयाकारवत्त्वस्य विवक्षणात् । न च 'तथापि केवलज्ञानग्राह्ये आद्यक्षणवृत्तित्वप्रकारकत्वावच्छिन्नविशेष्यताया द्वितीयक्षणे नाशः, द्वितीय- 10 क्षणवृत्तित्वप्रकारकत्वावच्छिन्नविशेष्यतायाश्च उत्पादः, इत्थमेव ग्राह्यसामान्यविशेष्यताध्रौव्यसंभेदेन केवलज्ञाने त्रैलक्षण्यमुपपादितमिति एकदा निखिलज्ञेयाकारवत्त्वासम्भव एवं' इति शङ्कनीयम् , समानकालीनत्वस्य क्षणगर्भत्वे दोषाभावात् । अस्तु वा निखिलज्ञेयाकारसङ्गमयोग्यतावत्त्वमेव लक्षणम् । केवलसिद्धावनुमानोपन्यास: ६५८. प्रमाणं च तत्र ज्ञानत्वमत्यन्तोत्कर्षवद्वत्ति अत्यन्तापकर्षवद्वत्तित्वात् परिमाणत्ववत् इत्याद्यनुमानमेव । न च अप्रयोजकत्वं ज्ञानतारतम्यस्य सर्वानुभवसिद्धत्वेन तद्विश्रान्तेः अत्यन्तापकर्षात्कषोभ्यां विनाऽसम्भवात् । न च 'इन्द्रियाश्रितज्ञानस्यैव तरतमभावदर्शनात् तत्रैव अन्त्यप्रकर्षों युक्तः' इत्यपि शङ्कनीयम् , अतीन्द्रियेपि मनोज्ञाने शास्त्रार्थावधारणरूपे शास्त्रभावनाप्रकर्षजन्ये, शास्त्रातिक्रान्तविषये अतीन्द्रियविषयसामर्थ्य- 20 योगवृत्तिसाधने अध्यात्मशास्त्रसिद्धप्रातिभनामधेये च तरतमभावदर्शनात् । केवले भावनायाः साक्षाद्धेतुत्वनिरासाय चर्चा ६५९. नन्वेवं भावनाजन्यमेव प्रातिभवत्केवलं प्राप्तम् , तथा च अप्रमाणं स्यात् , कामातुरस्य सर्वदा कामिनीं भावयतो व्यवहितकामिनीसाक्षात्कारवत् भावनाजन्यज्ञानस्य अप्रमाणत्वव्यवस्थितेः। ६६०. अथ न भावनाजन्यत्वं तत्र अप्रमाण्यप्रयोजकम् , किन्तु बाधितविषयत्वम् , भावनानपेक्षेपि शुक्तिरजतादिभ्रमे बाधादेव अप्रामाण्यस्वीकारात् । प्रकृते च न विषयबाध इति नाप्रामाण्यम् । न च 'व्यवहितकामिनीविभ्रमादौ दोषत्वेन भावनायाः क्लप्तत्वात् तजन्यत्वेनास्याप्रामाण्यम् , बाधितविषयत्ववद्दोषजन्यत्वस्यापि भ्रमत्वप्रयोजकत्वात् । तथा चोक्तं मीमांसाभाष्यकारेण - "यस्य(त्र) च दुष्टं का(क)रणं यत्र च, मिथ्ये- 30 त्यादिप्र(मिथ्येऽतिप्रोत्ययः स एव(वा)समीचीनो नान्य इति ।" [ शाबर० १.१.५] वार्तिककारेणाप्युक्तम् - १ अप्रसिद्ध मु। 25 - Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244