Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 184
________________ पृ० ७. पं० २०.] टिप्पणानि । वत्थाईण अगहणं एवं पत्तं मुणीण अविसेसा । आणाचाए दोसो नण्णह वत्थाइगहणे वि ॥ १६३ ॥ एवं सति ग्रन्थमात्रग्रहणनिषेधे मुनीनामविशेषाद्वस्त्रादीनामग्रहणं प्राप्तं । न हि स्वर्णादिकं ग्रन्थो वस्त्रादिकं च न प्रन्थ इति विशेषोऽस्ति । आज्ञात्यागे "जिणाण बारसरूवो उ" इत्यादिवचनोल्लने वस्त्रादिग्रहणेऽपि दोषोऽतिरिक्तोपकरणस्याधिकरणरूपत्वात्, नान्यथा आज्ञाया अत्यागे वस्त्रादिग्रहणेऽपि दोषः ॥ १६३ ॥ एयमगहणं भावा अहिगरणच्चायओ मुणेअव्वं । एस महावकत्थो अइदंपजं तु पुव्वुत्तं ॥ १६४ ॥ यत एतद्वस्त्रादिग्रहणं भावात् तत्त्वतोऽधिकरणत्यागत आर्तध्यानादिपरिहारात् अग्रहणं मुणेअव्वंति ज्ञातव्यम् । अग्रहणपरिणामोपष्टम्भकं ग्रहणमपि खलु अग्रहणमेव । एष महा- " वाक्यार्थः । ऐदम्पर्य तु पूर्वोक्तं आजैव सर्वत्र धर्मे सार इति ॥ १६४ ॥ वाक्यान्तरमधिकृत्याह - तवज्झाणाइ कुजा एत्थ पयत्थो उ सव्वहिं ओहा । छहुस्सग्गाईणं करणं सेयं सिवढे ति ॥ १६५ ॥ 'तपोध्यानादि कुर्यात्' अत्र वाक्ये पदार्थस्तु सर्वत्र ओघेन समर्थासमर्थादिपरिहारसामा-15 न्येन शिवार्थं मोक्षार्थं षष्ठोत्सर्गादीनां करणं श्रेय इति ॥ १६५ ॥ तुच्छावत्ताईणं तकरणं अकरणं अओ पत्तं । बहुदोसपसंगाओ वकत्थो एस दट्ठव्वो ॥ १६६ ॥ तुच्छा असमर्थाः बालवृद्धादिलक्षणाः, अव्यक्ताश्च अगीतार्थाः, आदिनावश्यकहानियोग्यादिग्रहस्तेषामतः पदार्थात् तत्करणं षष्ठोत्सर्गादिकरणं प्राप्तं बहुदोषप्रसंगात् शक्त्यतिक्रमेण तपोध्यानादिकष्टानुष्ठानस्यार्तध्यानमयत्वेन तिर्यगाद्यशुभजन्माद्यापत्तेः अकरणं तत्त्वतोऽकरणमेव तत् , एष वाक्यार्थो द्रष्टव्यः ॥ १६६ ॥ एस महावकत्थो समयाबाहेण एत्थ जमदोसो। सव्वत्थ समयणीई अइदंपजत्थओ इट्टा ॥ १६७ ॥ एष महावाक्यार्थः यत्समयाबाधेनागमानुल्लङ्घनेन, अत्रादोषः । आगमश्चायमत्र व्यवस्थितः "तो जह न देह पीडा न यावि विमंससोणियत्तं च । जह धम्मज्झाणवुड्डी तहा इमं होइ कायव्वं ॥" ऐदम्पर्यार्थत ऐदम्पर्यार्थमाश्रित्य सर्वत्र समयनीतिरागमनीतिरेव, इष्टाऽभिमता । तस्या एव सर्वत्राधिकार्यनधिकार्यादिविभागप्रदर्शनहेतुत्वात् ॥ १६७ ॥ ...वाक्यान्तरमप्यधिकृत्याह - दाणपसंसणिसेहे पाणवहो तय च वित्तिपडिसेहो। एत्थ पयत्थो एसो जं एए दो महापावा ॥ १६८ ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244