Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown
View full book text
________________
ज्ञानबिन्दुप्रकरणस्य [पृ० ७. पं० २१"उभयविशेषणोपादानं अन्यतराभावे हिंसाऽभावज्ञापनार्थम् ॥ १२ ॥....... इत्येवं कृत्वा यैरुपालम्भः क्रियते
"जले जन्तुः स्थले जन्तुराकाशे जन्तुरेव च ।
जन्तुमालाकुले लोके कथं भिक्षुरहिंसकः ॥" 5 इति सोत्रावकाशं न लभते । भिक्षोनिध्यानपरायणस्य प्रमत्तयोगाभावात् । किं च स्थूलसूक्ष्मजीवाभ्युपगमात्
"सूक्ष्मा न प्रतिपीड्यन्ते प्राणिनः स्थूलमूर्तयः।
ये शक्यास्ते विवय॑न्ते का हिंसा संयतात्मनः॥" इति” – राजवा० ७.१३.१२. "ननु प्रमत्तयोग एव हिंसा तदभावे संयतात्मनो यतेः प्राणव्यपरोपणेपि हिंसाऽनिष्टेरिति 10 कश्चित् । प्राणव्यपरोपणमेव हिंसा प्रमत्तयोगाभावे तद्विधाने प्रायश्चित्तोपदेशात् । ततः तदुभयोपादानं सूत्रे किमर्थमित्यपरः । अत्रोच्यते- उभयविशेषोपादानमन्यतमाभावे हिंसाऽभावज्ञापनार्थम् । हिंसा हि द्वेधा । भावतो द्रव्यतश्च । तत्र भावतो हिंसा प्रमत्तयोगः सन् केवलः तत्र भावप्राणव्यपरोपणस्यावश्यंभावित्वात् । ततः प्रमत्तस्यात्मनः स्वात्मघातित्वात्
रागाद्युत्पत्तेरेव हिंसात्वेन समये प्रतिवर्णनात् । द्रव्यहिंसा तु परद्रव्यप्राणव्यपरोपणं 15 स्वात्मनो वा, तद्विधायिनः प्रायश्चित्तोपदेशो भावप्राणव्यपरोपणाभावात् तदसंभवात् प्रमत्त
योगः स्यात् । तद्धि पूर्वकस्य यतेरप्यवश्यंभावात् । ततः प्रमत्तयोगः प्राणव्यपरोपणं च हिंसेति ज्ञापनार्थं तदुभयोपादानं कृतं सूत्रे युक्तमेव ।” त० श्लोक० ७.१३
"पापं ध्रुवं परे दुःखात् पुण्यं च सुखतो यदि । अचेतनाकषायौ च बध्येयातां निमित्ततः ॥ पुण्यं ध्रुवं स्वतो दुःखात् पापं च सुखतो यदि । वीतरागो मुनिर्विद्वांस्ताभ्यां युझ्यानिमित्ततः॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेप्युक्तिर्नावाच्यमिति युज्यते ॥ विशुद्धिसंक्लेशाङ्गं चेत् स्वपरस्थं सुखासुखम् । पुण्यपापासवो युक्तो न चेद् व्यर्थस्तवाहतः॥" आप्तमी० ९२-९५ "अहिंसा भूतानां जगति विदितं ब्रह्म परमम, न सा तत्रारम्भोऽस्त्यणुरपि च यत्राश्रमविधौ । ततस्तत्सिद्ध्यर्थ परमकरुणो ग्रन्थमुभयम् , भवानेवात्याक्षीन्न च विकृतवेषोपधिरतः ॥" बृहत्स्व० ११९ "अज्झप्पविसोहीए जीवनिकाएहिं संथडे लोए।। देसियमहिंसगत्तं जिणेहिं तेलोकदंसीहिं ॥ ७४७॥ उच्चालियम्मि पाए ईरियासमियस्स संकमट्टाए । वावजेज कुलिंगी मरिज तं जोगमासज्ज ॥ ७४८ ॥ न य तस्स तन्निमित्तो बंधो सुहुमोवि देसिओ समए । अणवजो उ पओगेण सव्वभावेण सो जम्हा ॥ ७४९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244