Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown
View full book text
________________
ज्ञानबिन्दुप्रकरणस्य [पृ० ७. पं० २१--- "नन्विदं स्वमनीषिकामात्रविजूंभितं केन प्रमाणीक्रियतामिति आशङ्कयाह -
भणियं च कप्पभासे वत्थच्छेयाहिगारमुद्दिस्स ।
एयं सुविसेसेउं पडिवजेअव्वमिय सम्मं ॥ ११६ ॥ भणितं चैतदनुपदोक्तम् , कल्पभाष्ये वस्त्रच्छेदनविधानसमर्थनं हृदि निधाय सुविशेष्य सपूर्वोत्तरपक्षं वितत्य, इति हेतौ, सम्यक्प्रतिपत्तव्यमदः, कल्पभाष्यामिप्रायश्चायम् -" उपदेशरहस्य गा० ११६ ।
"सद्दो तहिं मुच्छति छेदणा वा धावंति ते दो वि जाव लोगो ।
वत्थस्स देहस्स य जो विकंपो ततो वि वादादि भरिति लोगं ॥ भो! आचार्य ! तत्र वस्त्रे छिद्यमाने शब्दः संमूर्च्छति छेदनका वा सूक्ष्मपक्ष्मावयवा 10 उड्डीयन्ते । एते च द्वयेपि ततो निर्गता लोकान्तं यावत् प्राप्नुवन्ति । तथा वस्त्रस्य देहस्य च यो विकंपश्चलनं ततोपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति ।
अहिच्छसि जंति ण ते उ दूरं संखोभिया तेहऽवरे वयंति ।
उर्दू अहे यावि चउद्दिसि पि पूरिति लोगं तु खणेण सव्वं ॥ अथाचार्य त्वं इच्छसि मन्यसे, ते च वस्त्रच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्गलाः, न 15 दूरं लोकान्तं यान्ति तर्हि तैः संक्षोभिताश्चालिताः सन्तोऽपरे ब्रजन्ति । एवमपरापरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोर्ध्वमधस्तिर्यक्चतसृष्वपि दिक्षु सर्वमपि लोकं आपूरयन्ति । यत एवमतः
विनाय आरंभमिणं सदोसं तम्हा जहालद्धमहिहिहिजा ।
वुत्तं सएओ खलु जाव देही ण होइ सो अंतकरी तु ताव ॥ 20 इदमनन्तरोक्तं सर्वलोकपूरणात्मकमारंभं सदोषं सूक्ष्मजीवविराधनया सावा विज्ञाय,
तस्मात् कारणात् यथालब्धं वस्त्रं अधितिष्ठेत् न छेदनादि कुर्यात्, यत उक्तं भणितम् , व्याख्याप्रज्ञप्तौ-यावदयं देही जीवः, सैजः सकम्पः चेष्टावानित्यर्थः तावदसौ कर्मणो भवस्य वा अन्तकारी न भवति । तथा च तदालापक:- "जाव णं एस जीवे सया समिअं एअइ, वेअइ, चलइ, फंदइ, घट्टइ, खुब्भइ, उदीरइ, तं तं भावं परिणमइ ताव णं तस्स 25 जीवस्स अंते अंतकिरिया ण भवह।" . अथेत्थं भणिष्यथ एवं तर्हि भिक्षादिनिमित्तमपि चेष्टा न विधेयेति । नैवम् , यतः
जा यावि चिट्ठा इरियाइआओ संपस्सहेताहिं विणा ण देहो ।
संचिट्ठए नेवमच्छिजमाणे वत्थंमि संजायइ देहणासो ॥ याश्चापि चेष्टा ईर्यादिकाः संपश्यत तोरणमीर्या भिक्षासंज्ञाभूम्यादौ गमनं, आदि" शब्दाद् भोजनशयनादयो गृह्यन्ते, एताभिर्विना देहः पौद्गलिकत्वात् न संतिष्ठते न निर्वहति, देहमन्तरेण च संयमस्यापि व्यवच्छेदः प्राप्नोति, वस्त्रे पुनरच्छिद्यमाने नैवं देहनाशः संजायते अतो न तच्छेदनीयम् । किञ्च,
जहा जहा अप्पतरो से जोगो तहा तहा अप्पतरो से बंधो। निरुद्धजोगिस्स व से ण होइ अच्छिद्दपोतस्स व अंबुणाहे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244