Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 199
________________ ज्ञानबिन्दुप्रकरणस्य [पृ० ७. पं० २१अहणंतो वि हु हिंसो दुवृत्तणओ मओ अभिमरो व्व। बाहिंतो न वि हिंसो सुद्धत्तणओ जहा विजो ॥ १७६४ ॥ न हि 'घातकः' इत्येतावता हिंस्रः। न चानन्नपि निश्चयनयमतेनाहिंस्रः। नापि 'विरलजीवम्' इत्येतावन्मात्रेणाहिंस्रः, न चापि 'जीवधनम्' इत्येतावता च हिंस्र इति । किं तर्हि, 5 अभिमरो गजादिघातकः स इव दुष्टाध्यवसायोऽनन्नपि हिंस्रो मतः । बाधमानोऽपि च शुद्धपरिणामो न हिंस्रो यथा वैद्यः । इति प्रमप्यहिंस्रः, अनन्नपि च हिंस्र उक्तः ॥ १७६३-१७६४ ॥ स इह कथं भूतो ग्राह्यः ? इत्याह - पंचसमिओ तिगुत्तो नाणी अविहिंसओ न विवरीओ। होउ व संपत्ती से मा वा जीवोवरोहेणं ।। १७६५ ॥ पञ्चभिः समितिभिः समितः, तिसृभिर्गुप्तिभिश्च गुप्तो ज्ञानी जीवस्वरूप-तद्रक्षाक्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतः तत्प्रयतश्च कथमपि हिंसन्नप्यविहिंसको मतः । एतद्विपरीतलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम् , अशुभपरिणामत्वात् बाह्मजीवहिंसायास्तु जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन संपत्तिर्भवतु, मा भूद् वा 'से' तस्य साध्यादेः, 16 हिंसकत्वे तस्या अनैकान्तिकत्वादिति ॥ १७६५ ॥ कुतः तस्या अनैकान्तिकत्वमित्याह - __ असुभो जो परिणामो सा हिंसा सो उ बाहिरनिमित्तं । को वि अवेक्खेज न वा जम्हाऽणेगंतियं बझं ॥ १७६६ ॥ यस्मादिह निश्चयनयतो योऽशुभपरिणामः स एव हिंसा इत्याख्यायते । स च बाह्यसत्त्वातिपातक्रियालक्षणं निमित्तं कोप्यपेक्षते कोपि पुनस्तनिरपेक्षोऽपि भवेत् , यथा तन्दुलमत्स्यादीनाम् , तस्मादनैकान्तिकमेव बाह्यनिमित्तम्, तत्सद्भावेप्यहिंसकत्वात्, तदभावेऽपि च हिंसकत्वात् इति ॥ १७६६ ॥ ___ नन्वेवं बाह्यो जीवघातः किं सर्वथैव हिंसा न भवति ?। उच्यते कश्चिद् भवति, कश्चित्तु न । कथम् ? इत्याह - असुभपरिणामहेऊ जीवाबाहो ति तो मयं हिंसा । जस्स उ न सो निमित्तं संतो वि न तस्स सा हिंसा ॥ १७६७॥ ततः - तस्मात् यो जीवाबाधोऽशुभपरिणामस्य हेतुः अथवा अशुभपरिणामो हेतुः कारणं यस्यासावशुभपरिणामहेतुर्जीवाबाधः जीवघातः स हिंसा इति मतं तीर्थकरगणधराणाम् । यस्य तु जीवाबाघस्य सोऽशभपरिणामो न निमित्तं स जीवाबाधः सन्नपि तस्य साधोन हिंसेति ॥ १७६७ ॥ अमुमेवार्य दृष्टान्तेन द्रढयन्नाह - सदादओ रइफला न वीयमोहस्स मावसुद्धीओ। जह, तह जीवावाहो न सुमणसो वि हिंसाए ॥ १७६८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244