Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 211
________________ १०४ ज्ञानबिन्दुप्रकरणस्य [पृ० १२. पं० १०यथा मा रुष्य मा तुष्येत्येवमेव स भक्तितः । घोषयामास तत्रापि विस्मृतिस्तस्य जायते ॥ ततो महाप्रयत्नेन संस्मृत्य किल किञ्चन । तत्रासौ घोषयामास तुष्टो माषतुपेत्यलम् ॥ ततस्तद्घोषणान्नित्यं माषतुपेत्यभिख्यया । ख्यातिं नीतो महात्मासौ बालिशैः क्रीडनापरैः॥ एवं सामायिकाद्यर्थेऽप्यशक्तो गुरुभक्तितः । ज्ञानकार्यमसौ लेभे कालतः केवलश्रियम् ॥" उपदेशपदटीका गा० १९३ । पृ० १२. पं० १०. 'स्वतो ग्राह्यत्व'-"स्वकीयेभ्य एव स्वजनकसामग्री-स्वजन्यस्वप्र10 त्यक्षसामग्री-स्वजन्यज्ञाततालिङ्गकानुमितिसामग्र्यन्यतमेभ्य इति यावत् । अत्र स्वस्यैव स्वप्रामाण्य विषयकतया वजनकसामग्र्येव स्वनिष्ठप्रामाण्यनिश्चायिका इति गुरवः । स्वोत्तरवर्तिस्वविषयकलौकिकप्रत्यक्षस्य स्खनिष्ठप्रामाण्यविषयकतया स्वजन्यस्वविषयकप्रत्यक्षसामग्री स्वनिष्ठप्रामाण्यनिश्चायिका इति मिश्राः । ज्ञानस्यातीन्द्रियतया प्रत्यक्षासंभवेन स्वजन्यज्ञाततालिङ्गकानुमितिसामग्री स्वनिष्ठप्रामाण्यनिश्चायिका इति भाट्टाः।” तत्त्वचि० प्र० पृ० १२६ । 15 तर्कदी० नीलकंठी पृ० ३६४ । । ... पृ० १२. पं० ११. 'न्यायनयेपि' - "तथापि तद्वति तत्प्रकारकज्ञानत्वं तद्वति तद्वैशिष्ट्यज्ञानत्वं वा प्रामाण्यं तन्निश्चयादेव निष्कम्पव्यवहारात् लाघवात् , नान्यद् गौरवात् । तच्च ज्ञानग्राहकसामग्रीग्राह्यमेव; तथाहि -विशेष्ये तद्धर्मवत्त्वं तद्धर्मप्रकारकत्वं च व्यवसायस्य अनुव्यवसायेन अनुमित्या स्वप्रकाशेन वा गृह्यते विषयनिरूप्यं हि ज्ञानम् अतो 20 ज्ञानवित्तिवेद्यो विषयः इति व्यवसाये भासमाने धर्मधर्मिवत् तद्वैशिष्ट्यमपि विषयव्यव सायरूपप्रत्यासत्तेः तुल्यत्वात् सम्बन्धितावच्छेदकरूपवत्तया ज्ञायमाने सम्बन्धिनि ससम्बन्धिकपदार्थनिरूपणम् इत्यनुव्यवसायस्य रजतत्वावच्छिन्नत्वेन पुरोवर्त्तिविषयत्वाच्च । अन्यथा पुरोवर्त्तिनं रजतं च जानामि इति तदाकारः स्यात्, न तु रजतत्वेन पुरोवर्तिनमिति ।” – तत्त्वचि० प्र० पृ० १७० । कुसुमा० द्वि० स्त० पृ० ९।। 25 पृ० १२. पं० २५. 'अत एवेदं रजतमिति' - "एतेनेदं रजतमिति तादात्म्यारोपव्यावर्त्तनाय प्रामाण्यशरीरे मुख्य विशेष्यता निवेश्या, मुख्यविशेष्यता च प्रकारतानवच्छिन्नविशेष्यता तत्र च प्रकारतानवच्छिन्नत्वं न स्वतो ग्राह्यमिति" - प्रामाण्यवाद गादाधरी पृ० १६० । ___ पृ० १३. पं० ३. 'प्रामाण्यमस्तु' - "वस्तुतस्तु विशेष्यितासम्बन्धेन तद्धर्मवदवच्छिन्नं प्रकारितासम्बन्धेन तद्धर्मवत्त्वमपि प्रामाण्यम्” तत्त्वचि० प्र० माथुरी० पृ. १७५ । ७ पृ० १३. पं० ५. 'अप्रामाण्यं' - "तदभाववति तत्प्रकारकज्ञानत्वमप्रामाण्यं परतो ज्ञायते तदभाववत्त्वस्य भ्रमानुल्लिखितत्वेन अनुव्यवसायाविषयत्वात्" - तत्त्वचि० प्र० पृ० १७६ । ४६ पृ० १३. पं० ८. 'तात्रिकैः' - "प्रमेत्येवेति एवशब्दस्तुल्यार्थे प्रमेत्याकारकज्ञानजन्यो योऽनुव्यवसायस्तद्विषय इत्यर्थः । तुल्यतामेवोपपादयति अनुव्यवसायस्येति- तथा च तज्ज्ञाने यथा विषयीभूतव्यवसायविशेष्ये तत्प्रकारीभूतधर्मवैशिष्ट्यं भासते तथा भ्रमानुव्यव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244