________________
१०४
ज्ञानबिन्दुप्रकरणस्य [पृ० १२. पं० १०यथा मा रुष्य मा तुष्येत्येवमेव स भक्तितः । घोषयामास तत्रापि विस्मृतिस्तस्य जायते ॥ ततो महाप्रयत्नेन संस्मृत्य किल किञ्चन । तत्रासौ घोषयामास तुष्टो माषतुपेत्यलम् ॥ ततस्तद्घोषणान्नित्यं माषतुपेत्यभिख्यया । ख्यातिं नीतो महात्मासौ बालिशैः क्रीडनापरैः॥ एवं सामायिकाद्यर्थेऽप्यशक्तो गुरुभक्तितः ।
ज्ञानकार्यमसौ लेभे कालतः केवलश्रियम् ॥" उपदेशपदटीका गा० १९३ । पृ० १२. पं० १०. 'स्वतो ग्राह्यत्व'-"स्वकीयेभ्य एव स्वजनकसामग्री-स्वजन्यस्वप्र10 त्यक्षसामग्री-स्वजन्यज्ञाततालिङ्गकानुमितिसामग्र्यन्यतमेभ्य इति यावत् । अत्र स्वस्यैव स्वप्रामाण्य विषयकतया वजनकसामग्र्येव स्वनिष्ठप्रामाण्यनिश्चायिका इति गुरवः । स्वोत्तरवर्तिस्वविषयकलौकिकप्रत्यक्षस्य स्खनिष्ठप्रामाण्यविषयकतया स्वजन्यस्वविषयकप्रत्यक्षसामग्री स्वनिष्ठप्रामाण्यनिश्चायिका इति मिश्राः । ज्ञानस्यातीन्द्रियतया प्रत्यक्षासंभवेन स्वजन्यज्ञाततालिङ्गकानुमितिसामग्री स्वनिष्ठप्रामाण्यनिश्चायिका इति भाट्टाः।” तत्त्वचि० प्र० पृ० १२६ । 15 तर्कदी० नीलकंठी पृ० ३६४ । । ... पृ० १२. पं० ११. 'न्यायनयेपि' - "तथापि तद्वति तत्प्रकारकज्ञानत्वं तद्वति तद्वैशिष्ट्यज्ञानत्वं वा प्रामाण्यं तन्निश्चयादेव निष्कम्पव्यवहारात् लाघवात् , नान्यद् गौरवात् । तच्च ज्ञानग्राहकसामग्रीग्राह्यमेव; तथाहि -विशेष्ये तद्धर्मवत्त्वं तद्धर्मप्रकारकत्वं च व्यवसायस्य अनुव्यवसायेन अनुमित्या स्वप्रकाशेन वा गृह्यते विषयनिरूप्यं हि ज्ञानम् अतो 20 ज्ञानवित्तिवेद्यो विषयः इति व्यवसाये भासमाने धर्मधर्मिवत् तद्वैशिष्ट्यमपि विषयव्यव
सायरूपप्रत्यासत्तेः तुल्यत्वात् सम्बन्धितावच्छेदकरूपवत्तया ज्ञायमाने सम्बन्धिनि ससम्बन्धिकपदार्थनिरूपणम् इत्यनुव्यवसायस्य रजतत्वावच्छिन्नत्वेन पुरोवर्त्तिविषयत्वाच्च । अन्यथा पुरोवर्त्तिनं रजतं च जानामि इति तदाकारः स्यात्, न तु रजतत्वेन पुरोवर्तिनमिति ।” – तत्त्वचि० प्र० पृ० १७० । कुसुमा० द्वि० स्त० पृ० ९।। 25 पृ० १२. पं० २५. 'अत एवेदं रजतमिति' - "एतेनेदं रजतमिति तादात्म्यारोपव्यावर्त्तनाय प्रामाण्यशरीरे मुख्य विशेष्यता निवेश्या, मुख्यविशेष्यता च प्रकारतानवच्छिन्नविशेष्यता तत्र च प्रकारतानवच्छिन्नत्वं न स्वतो ग्राह्यमिति" - प्रामाण्यवाद गादाधरी पृ० १६० । ___ पृ० १३. पं० ३. 'प्रामाण्यमस्तु' - "वस्तुतस्तु विशेष्यितासम्बन्धेन तद्धर्मवदवच्छिन्नं प्रकारितासम्बन्धेन तद्धर्मवत्त्वमपि प्रामाण्यम्” तत्त्वचि० प्र० माथुरी० पृ. १७५ । ७ पृ० १३. पं० ५. 'अप्रामाण्यं' - "तदभाववति तत्प्रकारकज्ञानत्वमप्रामाण्यं परतो
ज्ञायते तदभाववत्त्वस्य भ्रमानुल्लिखितत्वेन अनुव्यवसायाविषयत्वात्" - तत्त्वचि० प्र० पृ० १७६ । ४६ पृ० १३. पं० ८. 'तात्रिकैः' - "प्रमेत्येवेति एवशब्दस्तुल्यार्थे प्रमेत्याकारकज्ञानजन्यो योऽनुव्यवसायस्तद्विषय इत्यर्थः । तुल्यतामेवोपपादयति अनुव्यवसायस्येति- तथा च तज्ज्ञाने यथा विषयीभूतव्यवसायविशेष्ये तत्प्रकारीभूतधर्मवैशिष्ट्यं भासते तथा भ्रमानुव्यव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org