________________
पृ० १६. पं० २६.]
टिप्पणानि । सायेऽपि भ्रमविशेष्ये तत्प्रकारीभूतवैशिष्ट्यं भासत इति तुल्यतेति भावः । प्राञ्चस्तु प्रमेत्येव गृह्यते । प्रमात्वप्रकारेण गृह्यते इत्यर्थः इत्याहुः । तदसत् अप्रमानुव्यवसायेन प्रमात्वग्रहस्याशक्यत्वात्- तत्त्वचि० प्र० माथुरी० पृ० १७४ ।
पृ० १३. पं० २१. 'जे एगं जाणइ' - तुलना-विशेषा० गा० ३२० ।
पृ० १५. पं० १०. 'घट इत्यपायोत्तरमपि'- विशेषा. गा. २८२-२८८ । जैनतर्कभाषा 5 पृ० ४४,४५।
पृ० १६. पं० ९. 'अङ्गोपाङ्ग - "सुयनाणे दुविहे पण्णत्ते- तं जहा - अंगपविढं चेव अंगबाहिरं चेव ॥” स्था० २.१.७१ । नन्दी० सू० ४४ । तत्त्वार्थ० १.२० ।
पृ० १६. पं० १०. 'एकादीनि' - तत्त्वार्थसूत्रे तु इत्थं पाठः – “एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्व्यः ।” तत्त्वार्थ० १.३१.।
"तद्यथा- कस्मिंश्चिज्जीवे मत्यादीनामेकं भवति कस्मिंश्चिज्जीवे द्वे भवतः । कस्मिंश्चित् त्रीणि भवन्ति । कस्मिंश्चित् चत्वारि भवन्ति । श्रुतज्ञानस्य मतिज्ञानेन नियतः सहभावः तत्पूर्वकत्वात् । यस्य श्रुतज्ञानं तस्य नियतं मतिज्ञानम् । यस्य तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद् वा न वेति ।" तत्त्वार्थ भा० ।
'एकादीनि भाज्यानि' इत्यादिसूत्रीया सर्वार्थसिद्धिर्न भाष्यमनुधावति, । तत्र मतिश्रुतयोः ।। नियतसाहचर्यस्यैव प्रतिपादितत्वात् कदापि मतिज्ञानस्य श्रुतविरहिणोऽसंभवात् । पृ० १६. पं० ११. 'शब्दसंस्पृष्टार्थमात्रग्राहित्वेन' -
"अन्ने अणक्खरक्खरविसेसओ मइ-सुयाई भिंदन्ति ।
जं मइनाणमणक्खरमक्खरमियरं च सुयनाणं ॥ १६२ ॥ अत्राचार्यो दूषणमाह -
जइ मइरणक्खरच्चिय भवेज नेहादओ निरभिलप्पे ।
थाणुपुरिसाइपज्जायविवेगो किह णु होजाहि ? ॥ १६३॥ यदि मतिरनक्षरैव स्यात् - अक्षराभिलापरहितैव भवताऽभ्युपगम्यते, तर्हि निरभिलाप्येऽप्रतिभासमानाऽभिलापे स्थाण्वादिके वस्तुनि ईहादयो न प्रवर्तेरन् । ततः किम् ? इत्युच्यते-तस्यां मतावनक्षरत्वेन स्थाण्वादिविकल्पाभावात् - 'स्थाणुरयं पुरुषो वा' इत्यादि- 25 पर्यायाणां वस्तुधर्माणां विवेको वितर्कोऽन्वयव्यतिरेकादिना परिच्छेदो न स्यात् । तथाहि यदनक्षरं ज्ञानं न तत्र स्थाणुपुरुषपर्यायादिविवेकः यथाऽवग्रहे, तथा चेहादयः, तस्मात् तेष्वपि नासौ प्राप्नोति ॥” - विशेषा० टी० ।
पृ० १६. पं० २६. 'अर्धजरतीयन्याय' - "न चेदानीमर्धजरतीयं लभ्यम् । तद्यथा। अर्धं जरत्याः कामयतेऽधं नेति ।" पात० महा० ४.१.७८ ।
"न चार्धजरतीयमुचितम् । न हि कुकुट्या एको भागः पाकायापरो भागः प्रसवाय कल्प्यतामिति ।” सर्वद० बौद्ध० पृ० १४ । लौकिकन्या०१ पृ०८।
ज्ञा० १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org